Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 205
________________ १९१ १३ ग्रन्थः] आख्यातशक्तिवादः। प्रथमान्तपदाभावात् धात्वर्थस्थ भावनायां विशेषणतयैवान्वयस्य व्युत्पन्नत्वात्, भावनाया बाधितत्वाच, भावनाविशेष्यविरहादनन्वितैव संख्या। एकवचनं तु साधुत्वार्थम् । अत एव स्वापस्य द्वित्वबहुत्वेऽप्यौ. त्सर्गिकमेकवचनमेव । एवं च भावतिङ यथायथं वर्तमानत्वादीष्टसाधनत्वादिकमर्थः, तच धात्वर्थ एवान्वेति, तथैव प्रत्ययात् । तदबोधकानां तु घनादीनां प्रयोगधातुत्वमात्रम् । भावनायाश्च कर्तरि न्वयोऽस्तु, प्रथमान्तपदस्य तु भावाभिन्नाख्यातार्थप्रकारकबोधे हेतुत्वमस्तु अतो धात्वर्थस्येति । धात्वर्थप्रकारकस्यार्थबोधे आख्यातस्य हेतुस्वकल्पनादित्यर्थः । नन्वत्रापि भावाख्यातभिन्नस्य तथाहेतुस्वकल्पनमत आह-भावनाया इति । गगने स्थीयत इत्यादौ । इदं च कृतिरेव भावनेत्याशयेन । वस्तुतस्त्वाश्रयत्वस्य भावनात्वेऽपि प्रथमान्तपदोपस्थाप्यतद्विशेष्यविरहात् संख्यानन्वय इति पूर्वोक्तमेव साधु । तथा कार्यकारणभावे भावभिन्नत्वप्रवेशे गौरवात् । प्रथमान्तपदोपस्थाप्याभावेन भावनान्वयस्थासम्भावितत्वमेव बाधितत्वमिति केचित् । यत्तु चैत्रेण सुप्यते इत्यत्र चैत्रवृत्त्याश्रयताया निरूपकत्वसम्बन्धे. नान्वये तस्य प्रतियोगितानवच्छेदकत्वान्मैत्रेण न सुप्यत इति न स्यात् । अतएवाश्रयताया वृत्तिनियामक-सम्बन्धेनान्वयो वाच्यः । स च बाधित इत्यर्थः । तत्र, आधेयतावान् स्वाप इति बोधसम्भवात् । तस्मात्प्रथमान्तपदाभावादाख्यातेन तादृशाधेयताप्रकारकः स्वापविशेष्यको बोधो न जन्यत इति बोध्यम् । अतएव संख्याया इतरान्वयादेव औत्सर्गिक प्रथमोपस्थितं एवं भावनाया अनन्वितत्वेभावस्थले वर्तमानस्वाधन्वयः कुत्र स्यादितो भावतिङामिति । यथायथं लट लिङ्गादि (१)। एवं चैत्रेण सुप्यत इत्यादौ चैत्रनिष्ठस्वापो वर्तमान इत्यादिबोधो बोध्यः । यएपीष्टसाधनत्वं सर्वत्रैव धात्वर्थेऽन्वेति तथापि भावप्रत्ययेऽपि तदपरित्यागप्रदर्शनायेदम् । अन्यत्र भावनाया उपस्थितत्वात् कदाचित्तत्रेष्टसाधनत्वान्वयः सम्भवत्यपि अत्र तदभावादास्वर्थ एवान्वय इति वा आशयः । सौदंडमतेनेदम् । तन्मते कृताविष्टसाधनत्वान्वयादित्यन्ये । ननु भावतिका यथायथं भाश्रयताभावना वार्थः, तत्रैव वर्तमानस्वेष्टसाधनखादेरन्वयः तृतीयार्थस्तनिष्ठत्वं चैत्रेण सुप्यते इत्यादौ स्वापाश्रयता वर्तमाना चैत्रनिष्ठेत्यादिबोधोऽस्तु अत आह-तथैवेति । स्वापादावेव वर्तमानत्वादिबोध्यस्यानुभाविकरवादाश्रयत्वादिर्न भावतिर्थ इति भावः ।

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238