Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 204
________________ १९० वादार्थसंग्रहः [४ भागः पति पच्यते तण्डुल इत्यादौ कर्तृ-कर्मणी प्रथमान्तपदोपस्थाप्यतया भावनाविशेष्ये इति तत्रैव सङ्ख्यान्वयः। चैत्रेण सुप्यते गगनेन स्थीयते इत्यादौ तदुक्तमाचा:-न बन्यतराकांक्षा अन्वयहेतुः किस्तूभयाकांक्षा । प्रातिपदिकार्थो हि फलेनाम्वयमलभमानः क्रियासम्बन्धमपेक्षते । भावनापि व्यापार. भूता सती व्यापारिणमित्युभयाकांक्षेति । नचैवं चैत्रादिविशेषणतया भावनायां कुतो नान्वय इति वाच्यम्, अननुभवात् । न च भावनाप्रकारकबोधे प्रथमान्तोपस्थाप्यत्वादेस्तन्नसत्वात् । चैत्रः पचतीत्यादाविव भावनाप्रकारकबोधो मास्तु, तद्विशेष्यकस्तु स्यादिति वाच्यम् ,भावनाप्रकारक-बोधत्वस्याख्यातकार्यतावच्छेदकत्वात् । न च चैत्रेण घट एव दृश्यते इत्यत्र एवकारार्थेऽन्यस्मिनपि घटस्य विशेषणतया इतरविशेषणत्वेन तात्पर्यज्ञानामावस्यासत्त्वात् कथं भावनान्वयः, कर्मस्वायनवरुद्ध इत्यनेन तन्मुख्यविशेष्यकबोधे तात्पर्यज्ञानस्य हेतुताया उक्तत्वात् । मुख्यविशेष्यकत्वं तु स्वरूपसम्बन्धविशेषोऽतिरिक्तं वा न स्वितराविशेषणत्वम् । तथा सत्यत्रैव घटे मुख्य विशेष्यकत्वन्यवहारो न स्यादिति ध्येयम् । __ यत्तु कर्मत्वाचनवरुद्धत्वोको धात्वर्थादिसाधारण्यम्, प्रथमान्तपदोपस्थाप्यत्वोको चन्द्र इव मुखमस्तीत्यत्र चन्द्रसाधारण्यम् । अतो द्वयं चन्द्रवारणाय इतरविशेषणत्वे तात्पर्याविषयत्वार्थककर्मत्वेति । तत्र इतरविशेषणत्वेत्यस्य सम्यक्त्वात् । केचित्तु आत्मानं जानातीत्यत्रात्मनः कर्मत्व विशेषणतया भावनान्वयो न स्यादतो इतरविशेषणत्वमात्रतात्पर्याविषयत्वार्थकं कर्मत्वेति वाच्यम, तथाच यत्र तन्दुले कर्मत्वविशेषणत्वे भावनाविशेष्यत्वे च तात्पर्यग्रहस्तत्र तन्दुले भावनान्वयवारणाय प्रथमान्तेतीत्याहुः । (?) ओदनः पचति चैत्र इत्यत्र प्रथमायाः कर्मले लक्षणायामोदनस्य भावनाया विशेष्यत्वेनान्वयादाह-कर्मत्वेति । कर्मत्वबोधकपदार्थसमभिव्याहतपदोपस्थाप्यत्वार्थकमिति कश्चित् । भात्मानं जानातीति सङ्घहायेतरविशेषणान्वयबोधकत्वे गृहीततात्पर्यकान्यपदोपस्थाप्यत्वं तंत्रमित्यपरे । प्रात स्तिष्ठति नक्तं तिष्ठति इत्यत्र प्रथमान्तपदोपस्थाप्य प्रातःकाले स्थित्यन्वयात्कर्मत्वेति तदपि तत्पदान्यपदोपस्थाप्यार्थकम् । न च प्रातरित्यत्र प्रथमैव न स्वव्यतिरिक्तलिमार्थवचन एव तद्विधानादित्यपरे । ननु प्रथमान्तपदोपस्थाप्यस्य विशेषणतया कृतो नान्वयस्तथैवेति । तादृशानुभवादित्यर्थः ।। उक्तार्थमुदाहरणेन स्पष्टयति-चैत्र इत्यादिना । सुप्यत इत्यत्र स्वापानुकूलव्यापारस्य कदाचित्सम्भवादत माह-गगनेति । धात्वर्थ विशेष्यक एवा

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238