Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
२८८ वादार्थसंग्रहः ।
[४ भागः मेव वक्ष्यति-ताद्रूप्येण वेति । यत्त केवलं पचतीत्युक्ते एकत्वसंशयाभावात् एकत्वे शक्तिरिति तन्न, एवमपि कर्चनुपस्थितौ पाककृतिरेकत्वमित्येव बोधात् संशयानिवृत्तेः । तिङः कर्तरि लक्षणास्थलेऽपि एकत्वविशिष्टकर्तरि लक्षणैव । तादृशबोधोपपत्तो सन्देहनिराससम्भवान्नैकत्वशक्तिकेल्पनम् । तडित्तिष्टतीत्या. दावपि लुप्ताया एव विभक्तेः प्रतिसन्धानम् । अन्यथा दधि पश्येत्यादौ का गतिः । यत्त सुप एकत्वशक्तिमहाभावदशायां तिङ एकत्वशक्तिग्रहे सति एकत्वानुभव: सर्वसिद्ध इति तिङ एकत्वशक्तिर्दुर्वारेति मतं तत् घटपदे पटे शक्तिग्रहेण समं तुल्ययोगक्षेममित्युपेक्षितम् । कृतेति । क्लप्तशक्तेस्तदुत्तरसुप एव तथा बोधकत्वादिति भावः । एकत्वत्वादिरूपेण तिङ: संख्याभिधाय. कत्वात् योग्यतावशादबाधितस्थले कर्तृकर्मसाधारण्येनैव तदन्वये भवन्मते विनिगमनाभावात्तिङभिहितसंख्याकत्वाभिहितत्वमपि न नियामकं सम्भवति । मन्मते तु एकपदोपात्तप्रत्यासत्या तिर्थसंख्या कर्तरि कर्मणि वा एकस्मिन्नेवान्वेतीत्याशयेनाह-किश्चेत्यादि । न नियम: अभिहितत्वानभिहितत्वनियमाभाव: । पदार्थतावच्छेदकावच्छिन्नस्य शक्यतावच्छेदकीभूतैकत्वत्वाद्यवच्छिन्नस्य......कर्तकर्मेति । तथाच तिर्थसंख्यान्वयित्वादुभयोरप्यु. कत्वं स्यादित्यर्थः । अत्र कन्वितस्वार्थकैकवचनत्वं कर्मान्वितस्वार्थंकवचनत्वं च शक्ततावच्छेदकं ककत्वं कर्मैकत्वं च शक्यतावच्छेदकम् । तथाच कत्रे. कत्वरूपेण यत्र तात्पर्यवशात्तिडा संख्याऽभिधीयते तत्र कर्चभिहितत्वम् । एवं रीत्या कर्माभिहितत्वमपीत्यत्राह-ककत्वाभिधानेविति । शक्यतावच्छेदकतया कर्तुरभिधानं शक्तो गौरवं तन्नानात्वं शक्ततावच्छेदक-शक्यतावच्छेदकयोश्च शरीरगौरवम् । पूर्वोक्तास्वरसादाह-तत्तद्रूपेणेति । सुस्वतित्वा. दिवेत्यर्थः । एतन्मते केवलं पचतीति प्रयोगस्थलेऽनुभवसिद्ध एकत्वबोधो न, तिङस्तत्र शक्ति विनेति बोध्यम् । यद्वा-तत्तिष्ठतीत्यादौ सुबनुसन्धान विनापि एकत्वबोधात्तिङ एव तत्र शक्तिः। अन्यथा अश्रयमाणतिङः स्थले चैत्रेण दृष्ट इत्यादावपि तिङपस्थिति कल्पयित्वा तत एव एकत्वबोधः स्वीक्रियतामिति वैपरीत्यमेव न रोचयः । एकेति । एकेनैवाख्यातेन संख्याकायोरुभयोरुपस्थापनादेकपदोपात्तत्वम् । न च सर्वेषामेव पदार्थानां एकपदोपस्थितिसत्त्वात् किमत्र लास्वमिति वाच्यम्, पदान्तरार्थेन समं तस्यान्वये तत्पदे तत्पदघटितानुपूर्वीज्ञानस्य कारणत्वमेतदन्वयबोधे कल्पनीयमिति तदपेक्ष्य एतत्पदघटकवर्णानुपूर्वीशानमात्रस्य कारणताकल्पने लाघवमिति ।
Loading... Page Navigation 1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238