SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ २८८ वादार्थसंग्रहः । [४ भागः मेव वक्ष्यति-ताद्रूप्येण वेति । यत्त केवलं पचतीत्युक्ते एकत्वसंशयाभावात् एकत्वे शक्तिरिति तन्न, एवमपि कर्चनुपस्थितौ पाककृतिरेकत्वमित्येव बोधात् संशयानिवृत्तेः । तिङः कर्तरि लक्षणास्थलेऽपि एकत्वविशिष्टकर्तरि लक्षणैव । तादृशबोधोपपत्तो सन्देहनिराससम्भवान्नैकत्वशक्तिकेल्पनम् । तडित्तिष्टतीत्या. दावपि लुप्ताया एव विभक्तेः प्रतिसन्धानम् । अन्यथा दधि पश्येत्यादौ का गतिः । यत्त सुप एकत्वशक्तिमहाभावदशायां तिङ एकत्वशक्तिग्रहे सति एकत्वानुभव: सर्वसिद्ध इति तिङ एकत्वशक्तिर्दुर्वारेति मतं तत् घटपदे पटे शक्तिग्रहेण समं तुल्ययोगक्षेममित्युपेक्षितम् । कृतेति । क्लप्तशक्तेस्तदुत्तरसुप एव तथा बोधकत्वादिति भावः । एकत्वत्वादिरूपेण तिङ: संख्याभिधाय. कत्वात् योग्यतावशादबाधितस्थले कर्तृकर्मसाधारण्येनैव तदन्वये भवन्मते विनिगमनाभावात्तिङभिहितसंख्याकत्वाभिहितत्वमपि न नियामकं सम्भवति । मन्मते तु एकपदोपात्तप्रत्यासत्या तिर्थसंख्या कर्तरि कर्मणि वा एकस्मिन्नेवान्वेतीत्याशयेनाह-किश्चेत्यादि । न नियम: अभिहितत्वानभिहितत्वनियमाभाव: । पदार्थतावच्छेदकावच्छिन्नस्य शक्यतावच्छेदकीभूतैकत्वत्वाद्यवच्छिन्नस्य......कर्तकर्मेति । तथाच तिर्थसंख्यान्वयित्वादुभयोरप्यु. कत्वं स्यादित्यर्थः । अत्र कन्वितस्वार्थकैकवचनत्वं कर्मान्वितस्वार्थंकवचनत्वं च शक्ततावच्छेदकं ककत्वं कर्मैकत्वं च शक्यतावच्छेदकम् । तथाच कत्रे. कत्वरूपेण यत्र तात्पर्यवशात्तिडा संख्याऽभिधीयते तत्र कर्चभिहितत्वम् । एवं रीत्या कर्माभिहितत्वमपीत्यत्राह-ककत्वाभिधानेविति । शक्यतावच्छेदकतया कर्तुरभिधानं शक्तो गौरवं तन्नानात्वं शक्ततावच्छेदक-शक्यतावच्छेदकयोश्च शरीरगौरवम् । पूर्वोक्तास्वरसादाह-तत्तद्रूपेणेति । सुस्वतित्वा. दिवेत्यर्थः । एतन्मते केवलं पचतीति प्रयोगस्थलेऽनुभवसिद्ध एकत्वबोधो न, तिङस्तत्र शक्ति विनेति बोध्यम् । यद्वा-तत्तिष्ठतीत्यादौ सुबनुसन्धान विनापि एकत्वबोधात्तिङ एव तत्र शक्तिः। अन्यथा अश्रयमाणतिङः स्थले चैत्रेण दृष्ट इत्यादावपि तिङपस्थिति कल्पयित्वा तत एव एकत्वबोधः स्वीक्रियतामिति वैपरीत्यमेव न रोचयः । एकेति । एकेनैवाख्यातेन संख्याकायोरुभयोरुपस्थापनादेकपदोपात्तत्वम् । न च सर्वेषामेव पदार्थानां एकपदोपस्थितिसत्त्वात् किमत्र लास्वमिति वाच्यम्, पदान्तरार्थेन समं तस्यान्वये तत्पदे तत्पदघटितानुपूर्वीज्ञानस्य कारणत्वमेतदन्वयबोधे कल्पनीयमिति तदपेक्ष्य एतत्पदघटकवर्णानुपूर्वीशानमात्रस्य कारणताकल्पने लाघवमिति ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy