SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः] माख्यातशक्तिवादः। १८७ संख्याया वाच्यगामित्वम् । कर्तृ-कर्मबोधकत्वं च एकदाऽव्युत्पन्नम्, अतएव मैत्रः पच्यते तण्डुल इत्यादयो न प्रयोगाः। कर्तरि यकोऽसाधुत्वाच पच्यते चैत्र इत्यादयोऽपि कर्तरि नेति वैयाकरणाः ॥५॥ कर्तृकर्मेति । आख्यातजन्ये कर्तृबोधे कर्मतात्पर्यज्ञानं, कर्मतात्पर्यबोधे च कर्तृवात्पर्यज्ञानं विरोधिफलबलात्तथा कल्पनं कृतिकर्मत्वशक्तावपि तुल्यमिति भावः। - अत इति । मैत्र: पाककर्ता तण्डुलः पाककर्मेति बोधो मैत्रः पच्यते तन्दुल इति वाक्यादितो न भवतीत्यर्थः । ननु तत्र मास्तु तत्र कर्तृकर्मणोर्द्वयोर्बोधः, चैत्रः पच्यते इत्यत्राख्यातत्वेन कर्तृशक्कादात्मनेपदात् कर्तृलाभस्तु स्यादतः कर्तरीति.........समभिव्याहृताख्यातजन्यकर्तरुपस्थितेः, आख्यातजन्यकर्तृबोधे हेतुत्वादिति भावः ॥६॥ (रामकृष्ण० ) वैयाकरणमतमाह-कर्तृकर्मणीति । सामानाधिकरण्येति । भिन्नाभ्यां धर्माभ्यामेकर्मिबोधकत्वमिह सामानाधिकरण्यम् । अन्यथा कर्बाद्यनभिधाने । तयोस्तृतीयाद्वितीययोः । अथ कृत्यभिधानानभिधानाम्यां कत्रभिहितत्वानभिहितत्वव्यवस्थेत्यत्राह-कृत्यभिधानस्येति । अविशिष्टत्वात् कर्तृकर्मप्रत्ययसाधारण्यात् । इदं च प्राचा मतेन । स्वमते कर्मप्रत्ययस्थले तृतीयाया एव कृत्यभिधायकत्वस्य व्यवस्थाप्यत्वात् कर्तृकर्मसंख्यत्यादिरित्यपि नास्तीत्येको ग्रन्थः । चैत्रो मैत्रश्चेति । अत्र प्रथमायामेव द्वित्वलक्षणया निर्वाहे तिशक्तिर्न कल्प्यत इति भ्रमो हेयः । तथा सति द्वौ चैत्रौ द्वौ मैत्रौ इति बोधापत्तेः । तिङस्तदर्यत्वे स्वार्थविशेष्यचत्रमत्रोभयमिति तयोरेव द्वित्वमन्वेति । एवं द्विवचनबहुवचनयोः शक्ति व्यवस्थाप्यैकवचनेऽपि वां व्यवस्थापयतिलाघवादिति । एकवचनसुस्वेन तथा कल्पने गौरवमिति भावः । अत्र एकवचनत्वं नैकत्वशक्तत्वमात्माश्रयात् । एकत्वबोधकत्वं तु लाक्षणिकसाधारणम् । एकवचनत्वेन शास्त्रकारपारिभाषितस्य तत्तदन्यतरत्वस्य तत्तज्ज्ञानविषयत्वस्य वा तथात्वे मानाभावः। किंच ज्ञानव्यक्तीनां प्रत्येकमादाय विनिगमनाविरहेण नानाशक्तिकल्पने क लाघवम्, कथं वा सुम्मात्रवृत्त्यन्यतरत्वापेक्षया तिङ-सुप्-साधारणान्यतरत्वस्य लघुत्वम् । किंच एकवचनत्वं न शक्ततावच्छेदकम्, घटपदनिष्ठघटवचनत्ववत् । किन्तु अव्यवहितोत्तरतासम्बन्धेन घटवट्टत्वादिवत् उत्तरोत्तरवणें पूर्वपूर्वतत्तद्वर्णवत्त्वमेवेत्यादिकं विचिन्त्यानुपद
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy