________________
वादार्थसंग्रहः। [४ भागः कृता संख्यानभिधानात् । किंच एकत्वादिसंख्याभिधाने न नियमः पदार्थतावच्छेदकावच्छिन्नस्याकांक्षादिवशात् कर्तृकर्मसाधारण्येनान्वयबोधस्य दुर्वारत्वात् । ककत्वत्वादिनाभिधानेऽपि कर्नादेरप्यभिधेयत्वं, शक्तौ शक्ततावच्छेदकशक्यतावच्छेदकयोश्च गौरवमधिकम् । तस्मादाख्यातत्वेन कर्तरि, आत्मनेपदत्वेन च कर्मणि एकवचनत्वादिना तत्तद्रूपेण वा एकत्वादी शक्तिः, एकपदोपात्तत्वाच्च एकत्वे शक्तिः क्लृप्तेति वाच्यम्, तथापि प्रथमैकवचनस्यैकत्वे शक्तौ विनिगमनाविरहादित्याहुः।
यत्तु पचतीत्यत्र पाककर्तुरेकत्वसंशयामावात्तिकस्तत्र न शक्तिः, तन्न, एकत्रप्रतीतावपि धर्म्यभाने संशयानुच्छेदात धर्मिणि लक्षणायां चैकत्वविशिष्ट एव तस्यायकत्वात् । कश्चित्तु पचतीत्युक्त शक्त्या लक्षणया वा उपस्थिते कर्तरि एकत्वस्य प्रतीतेः तत्र तिप्लादीनां शकिरित्याह, तन्न, न्यायनये पचती. त्यत्र सर्वत्र लक्षणायां बीजाभावेन क्वचित्पाककृतिमात्रप्रतीतेः। सर्वत्र कर्तर्यः कत्वप्रतीत्यसिद्धेः कृतेति तदुत्तरसुप एव संख्याबोधकत्वान कृतः संख्यायां शक्तिः। तथा च चैत्रो ग्राम गतवानित्यादावपि तृतीया । मैत्रेण ग्रामो गत इत्यादावपि द्वितीया स्यात् । कृता संख्यानभिधानादित्यर्थः ।
मन्वाख्यात एवायमुक्तानुक्तविभागोऽतः किञ्चेति । न नियमः संख्यान्वयः कर्माख्याते कर्मण्येव कर्माख्याते कर्तर्यवेति नियमो न। कर्मकर्तृसाधारण्येनेति । तथा च तण्डुलं पचतीत्यत्र तण्डुलनिष्ठापि संख्या कदाचिदाख्याते. नाभिधीयते । एवमन्यत्रापि वैयत्यं बोध्यम् । ककत्वादिना शक्तौ बाधादेव कमैकत्वं न भासते अतः कषेकत्वेति । कāकस्वेन शक्तौ बहुशक्तिकल्पना. शक्ततावच्छेदक-कर्बकत्वबोधकरवे शक्यतावच्छेदकत्वे कर्तृकत्वे गौरवमित्यर्थः। एकवचनत्वे पूर्वोक्तदोषद्वयमभिप्रेत्याह-तत्तद्रूपेणेति । तिवादित्यर्थः । एकपदेति । कर्माख्यातजन्यसङ्ख्याप्रकारकबोधे कळख्यातजन्यकर्तरुपस्थिविहेतुः । एवं कर्माख्यातस्थलेपीति भावः । वाच्यगामित्वं आख्यातोपस्था. प्यकर्तृकान्वयित्वम् । नचात्मनेपदस्य कर्मवाचकत्वमस्त्येव कर्तृवाचकत्वं त्वाख्यातत्वेनैवः । तथाच चैत्रः पच्यते तन्दुल इति प्रयोगः स्यात् अतः