________________
१८९
१३ ग्रन्थः] माख्यातशक्तिवादः।
अत्र वदन्ति-भावनाविशेष्ये संख्यान्वयः समानपदोपात्तत्वेन एकान्वयित्वस्योचितत्वात् । भावनायाश्च विशेष्यत्वेनान्वययोग्यः कर्मत्वाचनवरुडः प्रथमान्तपदोपस्थाप्यः । तथैवाकांक्षितत्वात् । चैत्रः
एकदेति । पक्ष्यत इत्यस्य कर्तरि कर्मणि चाव्युत्पन्नत्वादाख्यातार्थद्वयस्य युगपदुपस्थितस्य यथायोग्यं कर्तरि कर्मणि च युगपदन्वये बोधकाभावात् । कर्तृविशेष्यकान्वयबोधतात्पर्यज्ञानादेः कर्मविशेष्यकान्वयबोधे तदन्वयबोधतात्पर्यशानादेश्च कर्तृविशेष्यकान्वयबोधे प्रतिबन्धकत्वं कल्प्यते । फलाभावस्य निर्णीतत्वादिति भावः । न प्रयोगा इति । अत्र शाब्दबोधाभावे तात्पर्यम् । प्रयोगसाधुत्वे बाधकाभावात् । कर्तरि यक इति । आत्मनेपदं तु पचिघातोरुत्तरं कर्तर्यपि साध्विति यक इत्युक्तम् ॥ ५ ॥
(न्यायवा० ) लाघवादाख्यातस्य कृतौ शक्तिः, न तु कर्तरि । आख्या. तेन कर्तृसङ्ख्यानभिधानाभिधानाभ्यामेव तृतीयादिनियम इति सिद्धान्तः । तत्र सहयाया कर्तृकर्मसाधारण्येन बोधः स्यादिति बाधकमुद्धरति-भावनेनेति । तथाचाख्यातजन्यसह याचोधे भावनाप्रकारकबोधसामग्रीत्वेन हेतुस्वम् । प्रथमान्तपदजन्योपस्थित्यादेर्वा हेतुत्वमिति भावः । अतः पचेत नेत्यादौ कृतिसाध्यत्वरूपाख्यातार्थविशेष्ये पाकादौ न संख्यान्वयः । पाकादेः प्रथमान्तपदानुपस्थाप्यत्वात् । यत्तु आख्यातत्वेन लत्वेन वा यच्छक्तत्वमा वच्छिपते सा भावना कृतिसाध्यत्वं न तथेति तत्र रथो गच्छतीत्यादौ रथे सायानन्वयापत्तेः । त्वदीत्याभयत्वस्य भावनात्वाभावात् ।
भावनायाश्रेति । विशेषत्वेन धावादावन्वयात् विशेष्यत्वेनेत्युक्तम् । कर्मणि कुतो नान्वयस्तत्राह-कर्मत्वाचनवरुद्ध इति । कर्मत्वविशेषणत्वेन तन्दुलादेरुपस्थितत्वे भावनानिराकाङ्क्षत्वमित्यर्थः । प्रथमेति । तथाचेतरविशेपणत्वेन तात्पर्यविषयत्वे सति प्रथमान्तपदोपस्थाप्यत्वं भावनान्वये तन्त्रम् ।। नच सत्यन्तमेवास्तु तन्दुलं पचति जानातीत्यादौ यत्र तन्दुलस्य कर्मत्वविशेष्यतया बोधे यत्तात्पर्य तत्रापि तन्दुले भावनानन्वयात् । नच प्रथमान्तोपस्थाप्यत्वमेवास्तु चन्द्र इव मुखमस्तीत्यादौ चन्द्रे भावनानन्वयात्, सत्यम, तस्याप्यपेक्षितत्वादिति । __ अयमों भावनाश्रयसाकांक्षा पुरुषोऽपि क्रियारूपविशेषणसाकांध इति उमयाकांक्षासत्त्वेनान्वयबोधः । तन्दुलमित्यादेः फलेनाम्वयानिसकांधत्वम् । • १ ख. "स्थाप्य एव साकांक्षत्वात् । चै । २ मधुरानाथास्तु चैत्रेण सुप्यते, अल्पतः प्रागिदं वाक्यं व्याचक्षते।