Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः] माख्यातशक्तिवादः।
१८७ संख्याया वाच्यगामित्वम् । कर्तृ-कर्मबोधकत्वं च एकदाऽव्युत्पन्नम्, अतएव मैत्रः पच्यते तण्डुल इत्यादयो न प्रयोगाः। कर्तरि यकोऽसाधुत्वाच पच्यते
चैत्र इत्यादयोऽपि कर्तरि नेति वैयाकरणाः ॥५॥ कर्तृकर्मेति । आख्यातजन्ये कर्तृबोधे कर्मतात्पर्यज्ञानं, कर्मतात्पर्यबोधे च कर्तृवात्पर्यज्ञानं विरोधिफलबलात्तथा कल्पनं कृतिकर्मत्वशक्तावपि तुल्यमिति भावः। - अत इति । मैत्र: पाककर्ता तण्डुलः पाककर्मेति बोधो मैत्रः पच्यते तन्दुल इति वाक्यादितो न भवतीत्यर्थः । ननु तत्र मास्तु तत्र कर्तृकर्मणोर्द्वयोर्बोधः, चैत्रः पच्यते इत्यत्राख्यातत्वेन कर्तृशक्कादात्मनेपदात् कर्तृलाभस्तु स्यादतः कर्तरीति.........समभिव्याहृताख्यातजन्यकर्तरुपस्थितेः, आख्यातजन्यकर्तृबोधे हेतुत्वादिति भावः ॥६॥
(रामकृष्ण० ) वैयाकरणमतमाह-कर्तृकर्मणीति । सामानाधिकरण्येति । भिन्नाभ्यां धर्माभ्यामेकर्मिबोधकत्वमिह सामानाधिकरण्यम् । अन्यथा कर्बाद्यनभिधाने । तयोस्तृतीयाद्वितीययोः । अथ कृत्यभिधानानभिधानाम्यां कत्रभिहितत्वानभिहितत्वव्यवस्थेत्यत्राह-कृत्यभिधानस्येति । अविशिष्टत्वात् कर्तृकर्मप्रत्ययसाधारण्यात् । इदं च प्राचा मतेन । स्वमते कर्मप्रत्ययस्थले तृतीयाया एव कृत्यभिधायकत्वस्य व्यवस्थाप्यत्वात् कर्तृकर्मसंख्यत्यादिरित्यपि नास्तीत्येको ग्रन्थः । चैत्रो मैत्रश्चेति । अत्र प्रथमायामेव द्वित्वलक्षणया निर्वाहे तिशक्तिर्न कल्प्यत इति भ्रमो हेयः । तथा सति द्वौ चैत्रौ द्वौ मैत्रौ इति बोधापत्तेः । तिङस्तदर्यत्वे स्वार्थविशेष्यचत्रमत्रोभयमिति तयोरेव द्वित्वमन्वेति ।
एवं द्विवचनबहुवचनयोः शक्ति व्यवस्थाप्यैकवचनेऽपि वां व्यवस्थापयतिलाघवादिति । एकवचनसुस्वेन तथा कल्पने गौरवमिति भावः । अत्र एकवचनत्वं नैकत्वशक्तत्वमात्माश्रयात् । एकत्वबोधकत्वं तु लाक्षणिकसाधारणम् । एकवचनत्वेन शास्त्रकारपारिभाषितस्य तत्तदन्यतरत्वस्य तत्तज्ज्ञानविषयत्वस्य वा तथात्वे मानाभावः। किंच ज्ञानव्यक्तीनां प्रत्येकमादाय विनिगमनाविरहेण नानाशक्तिकल्पने क लाघवम्, कथं वा सुम्मात्रवृत्त्यन्यतरत्वापेक्षया तिङ-सुप्-साधारणान्यतरत्वस्य लघुत्वम् । किंच एकवचनत्वं न शक्ततावच्छेदकम्, घटपदनिष्ठघटवचनत्ववत् । किन्तु अव्यवहितोत्तरतासम्बन्धेन घटवट्टत्वादिवत् उत्तरोत्तरवणें पूर्वपूर्वतत्तद्वर्णवत्त्वमेवेत्यादिकं विचिन्त्यानुपद
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238