________________
१३ ग्रन्थः ] आख्यातशक्तिवादः।
१९३ मुद्धरति-भावनेत्यादिना । भावना चात्र संख्याकालाद्यतिरिक्त आख्यातार्थः । समानेति । अतएवैकयोगनिर्दिष्टानां सह वा प्रवृत्ति: सह वा निवृत्तिरिति प्रवादः।
औचित्यादिति । तदुभयप्रकारकशाब्दबोधं प्रति एकैवानुपूर्वीप्रयोजिकेति लाघवादित्यर्थः । यद्यपि संख्यान्वयनियामकत्वकल्पनायां समानपदोपात्तान्वयित्वमपेक्ष्य समानपदोपात्तत्वमेव लध्विति पूर्वोक्तरीत्यानुपूर्वीज्ञानस्य कारणताया तन्मत एव लाघवमिति च प्रतिभाति । तथापि कृतीनामानन्त्यात्तत्र शक्यतावच्छेदकत्वकल्पनामपेक्ष्य लाघवेन कृतित्वस्यैव शक्यतावच्छेदकत्वे सिद्धे वादृशकल्पनामतस्तद्गौरवं फलमुखमिति ।
ननु भावनान्वयेऽपि नियामकाभावात्तद्दोषतादवस्थ्यमत आह-भावनायाश्वेति । धात्वर्थविशेषणत्वेनान्वयादाह-विशेष्यत्वेनेति । कर्मत्वेत्यादि । इद. मपि तथाविशेषणत्वसूचनाय । अतएव चन्द्र इव मुखमुत्पद्यते इत्यादौ भुक्त्वा व्रजतीत्यादौ चानाख्यातार्थश्चन्द्रे क्त्वाप्रत्ययार्थे वा । कर्मत्वाचनवरुद्धो धात्व. र्थोऽपीत्यत माह-प्रथमेति । एवं च विशेष्यतासम्बन्धेनाख्यातार्थभावना. प्रकारक-समवायादिसंसर्गक-शाब्दबोधं प्रति इतरानन्वितार्थक-प्रथमान्तनामजन्योपस्थितिर्विषयतासम्बन्धेन कारणमिति सामान्यतः कार्यकारणभावः । - यत्तु चन्द्रस्येतरान्वितंत्वेन निराकाङ्कृत्वम् , एवं कर्मत्वाद्यनवरुद्धस्यापीति । तन्न, एकविशेष्यावरुद्धस्य विशेष्यान्तर एवाकाङ्क्षाविरहः, न तु विशेषणेऽपि । अतएवं कर्मत्वविशेषणस्यापि घटस्य नीलान्वये निराकक्षित्वं नीलं घटमानयेत्यादौ । विशेषणतयैवेति । तथा च न धात्वर्थे भावनान्वयः । अन्तिमोदाहरणमभिप्रेत्याह-भावनाया इति । बाधितत्वं धात्वर्थे प्रातिपदिकार्थे च । यद्यपि चात्र भावनापदेन संख्याकालाद्यतिरिक्त आख्यातार्य एवोच्यते अन्यथा जानातीत्यादौ संख्यान्वयो न स्यात् , तथा च प्रकृतेराश्रयत्वादेरबोध एव, तयापि पूर्वोक्तरीत्या कर्मत्वाद्यनवरुद्ध-प्रथमान्तपदाभावाद्भावनान्वयो बोद्धव्यः । अतएवाह-भावनाविशेष्यविरहादिति । अतएव संख्याया अनन्वयादेव । प्रथमोपस्थितमेकवचनमेव साधुत्वाय कलप्यत इति सम्प्रदायः ।
एवं चेति । भावनाया अबोधकत्व इत्यर्थः । यथायथं लटतिडादिनिय. न्त्रितम् । तथैवेति । वर्तमानत्वप्रकारेण धात्वर्थस्यैव प्रत्ययादित्यर्थः । इष्टसाधनत्वादेः सर्वत्र धात्वर्यान्वयस्वीकारेणात्र विशेषाभावेऽपि वस्तुगतिमवल. म्ब्योक्तम् । भावनाया विशेषणत्वेनान्वयनियमे संसर्गव्यवस्थामाह-भावनायाश्रेति । अन्यथा वक्तव्यक्रमेण ।
१७