________________
१९२ वादार्थसंग्रहः
[४ भागः ओश्रयित्वेन कर्मणि पुनरन्यथान्वयः, तव कर्तृ-कर्माभिधायित्ववच्चास्माकमपि तथान्वयबोधकत्वम् । अतो मैत्रेण पचति तण्डुलः, तण्डुलं पच्यते मैत्रः, मैत्रः पक्ष्यते तण्डुल इत्यादयो नं प्रयोगाः। भावना च व्यापारमात्रोपलक्षिका अचेतनानुरोधात् । भिनाभ्यां रूपाभ्यामेकधर्मिबोधकत्वलक्षणं सामानाधिकरण्यमप्रसिद्ध संभवदन्यादृशं तु न वार्यते॥६॥
तबोधकानां वर्तमानत्वाधबोधकानाम् । भावनायाः कुत्र कीगन्वयस्तमाह-आश्रयित्वेन आश्रयत्वसंसर्गेण । अन्यथा वक्ष्यमाणरीत्या तवेत्यादि यथा त्वन्मते परस्मैपदेन कर्मणोनभिधानं तथा मन्मते तदुपस्थाप्यकृतेविषयतया कर्मणि नान्वयः । आख्यातजन्ये विषयतासम्बन्धेन कृतिबोधे आत्मनेपदजन्यकृत्युपस्थितेरेव हेतुत्वादिति । यथा तव मते कर्तरियकोऽसाधुत्वं तथा मम कृतेराश्रयतया बोधेऽपि तस्यासाधुत्वम् । यथा तव कर्तृकर्मणोनकदा. न्वयस्तथा आनयतया विषयतया च नैकदा कृतेरन्वयः । क्रमेणोदाहरणानि । मैत्रेणेत्यादि । इत्यादय इत्यादिपदाच्चैत्रेण पचति तन्दुल इत्यत्र कृतेः समवायितया चैत्रस्तन्दुलं पच्यते चैत्रेणेत्यत्र विषयतया तन्दुले न बोधः। प्रथमा. न्तपदाभावात् । अत्रातिप्रसङ्गभिया त्वयापि तनियामकतापी...वाच्यत्वादित्याशयः।
ननु कृतिरेव भावना तथाच तदन्वयः नियमेऽपि रथो गच्छतील्यादौ कथं नियमोऽत आह-भावना चेति । व्यापारी व्याप्याश्रयत्वादेरुपलक्षकः, जानातील्यावतरोधात् । भिन्नाभ्यामिति । नील-घट इत्यत्र घट एव धर्मी नीलखेन नीलपदेन घटत्वेन घटपदेनोपस्थाप्यते धर्मिवाचकस्वं चोभयोस्तथा...क... कृते कर्तृत्वेन कर्तानाख्यातेनोच्यते......मिन्नधर्मावच्छिन्नैकधर्मिवृत्तिमत्यलक्षणम् । सामानाधिकरण्यं नामाख्यातयोरसिद्धमित्यर्थः । अन्यादृश एकर्मिविशिष्टे धर्मान्तरबोधकत्वम् । परस्पराान्वितस्वार्थबोधकत्वमिति यावत् । तथा चैत्रपदोपस्थाप्यं चैत्रत्वादिविशिष्टे पाककृतिबोधकत्वमाख्यातस्येत्यर्थः ॥ ६ ॥
(रामकृ०) अत्र वा पुनरर्थे । आख्यातार्थे संख्यान्वयित्वमेवाभिहितत्वमित्यत्र कर्तृकर्मसाधारण्येन संख्यान्वयबोधनियामकाभावेन पूर्वोक्तमतिप्रसङ्ग
१ आश्रयत्वेनेति आश्रितत्वेनेति पाटद्वयम् ।