SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १३ प्रन्थः] आख्यातशक्तिवादः । पाकजन्यफलशाली वा तण्डुलः प्रतीयत इति साक्षात्परम्परया भावनाया विशेष्यस्तण्डुलः, रथेन गम्यते ग्राम इत्यत्र रथनिष्ठगमनानुकूलव्यापारजन्यफल-. शाली ग्रामः प्रतीयते इति व्यापारविशेष्यो ग्राम इति ॥ ७॥ नव्यास्तु भावनादेराख्यातलभ्यत्वात् आधेयत्वमात्रं तृतीयार्थोऽस्तु संख्यामानं वा, संबन्धस्तु पचसावित्याहुः । तत्र, तथापि फले धात्वर्थे विभक्त्यर्थभावनाविशेषणकान्वयबोधस्वीकारात् । . केचित्तु चैत्रेण पच्यत इत्यत्र कृतिस्तृतीयार्थः पाके स च फळे तथाभयत्वे तच तन्दुले प्रकारः । आश्रयत्वं त्वाख्यातार्थः । अत्रापि धातोः क्रियाफलयोः खण्डशः शक्तिरस्तीत्याहुः । ननु द्वितीयकल्पे पाकस्य कथं भावनाविशेष्यस्वम् । प्रथमान्तपदादुपस्थाप्यत्वादितिदूषणं मुख्यविशेष्यतया भावनान्वयबोधे प्रथमान्तपदोपस्थाप्यत्वमपेक्षितमित्याशयेन परिवरति-साक्षादिक मन कल्पामिप्रायेण, द्वितीयाभिप्रायेण परम्परयेति । रथनिष्ठेति अत्र तृतीयार्थों निष्ठत्वं. गमने तच्च व्यापारे स च फले तच ग्रामे प्रकार इति । फलव्यापारयोरन्वये उक्तप्रकारो बोधः ॥ ७॥ (रामकृ०) अथेत्यादिकेन कथमित्यन्तेन प्रश्नः । चेतनाचेतनयोविभिन्न एवान्वय इत्यभिप्रायेणाह-मैत्रेणेत्यादिना । कर्मप्रत्ययस्थले फलबोधोऽनुभवसिद्ध इत्यभिप्रायेण द्वितीयम् । आख्यातार्थभावनाया धात्वर्थविशेषणत्वेनाप्यन्वयस्य तैः स्वीकारादिदमुक्तम् । उभयत्रापि पक्षे निष्ठत्वं तृतीयार्थः। एवमग्रेऽपि । साक्षादिति । आद्यकल्पे साक्षात् द्वितीयकल्पे परम्परया ॥ ७ ॥ (न्यायवा०) संख्यामात्रं वेति । काख्यात इव कर्माख्यातेऽपि कृतिः चैत्रायोः सम्बन्धो व्याक्यार्थ इत्युभयत्र तदंशेन वैलक्षण्यमित्याशयेनेदम् । तथा च भावनाः परे तृतीयाप्रकृत्यर्थान्वयो नामार्थेन धात्वर्थस्यैवान्वयोऽव्युत्पन्न नत्वाख्यातार्थेनेत्याशयः (?), यद्यपि प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वं तच प्रकृत्यातिरिक्तनामार्थाविशेषेणकान्वयबोधकत्वम् । अतएव मैत्रेण पच्यते तन्दुलमिष्यत्र तन्दुलो न विशेषणतया भावनायामन्वेति । अन्यथा मैत्र इव
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy