________________
१८४ वादार्थसंग्रहः
[४ भागः कर्त-कर्मणी लकारवाच्ये, चैत्रः पचति पच्यते तण्डुल इति सामानाधिकरण्यानुरोधात्, अन्यथा पचतीत्यत्रापि कर्तरि तृतीया पच्यत इत्यत्र कमणि द्वितीया स्यात् तयोरनभिहिताधिकारीयत्वात् त्यादि । तत्रैव दूषणान्तरमाह-धर्माति । द्वितीये वह्यादावपि व्यभिचारमाहतद्वथधिकरणेति, यत्नव्यधिकरणेत्यर्थः ।
अथ चैत्रत्वे सति यो यदा यादृशव्यापारवानिति वक्तव्यमित्याह-चैतन्येति शब्दाचैत्रत्वाद्यप्रतीतावपि प्रकारान्तरेणोपस्थितिस्तु न नियता। वर्तमानयत्नवत्त्वप्रतीतिस्तु नियतेति भावः । यद्वा-व्यापारानुवृत्तेरेतावत्पर्यन्तं यत्नस्य वर्तमानत्वप्रतीतौ बाधकम् । धर्मीत्यादिकस्तु चित्रत्वादी शुद्धयत्नवत्त्वबोधोऽपि न सम्भवतीत्येतत्पराभिन्नो ग्रन्थः । अतएव तत्र केवलयत्नपदमेव श्रूयत इति । तत्र शोभनः पचतीत्यादौ । स्वमते बाधकमुद्धर्तुमाह-तदित्यादि । अतएव अदृष्टजनककृतेर्जनकत्वे प्रमाणसद्भावे वा । अदृष्टाद्वारकत्वस्य स्वजनकीभूतादृष्टाजनकत्वस्य । त्वयापीति । पाकजनकादृष्टजनककृतिमादायातिप्रसङ्गस्योभयमतसाम्यादिति भावः ।
नवीनमतमाह-यत्नेति । सिद्धपाकविषयकासिद्धतत्फलोद्देश्यककृतिमादाय पचतीति प्रयोगापत्त्याह-जनकत्वं वेति । अत्र जनकत्वं फलोपधाम, तच्च चेष्टादिद्वारकम् । तेन न स्वरूपयोग्यपुरुषान्तरीयकृतिमादायातिप्रसङ्गः । अतएव ईश्वरो गच्छति पचतीद्यप्रयोगः (१)। तादृशजनकताविशेषः संसर्ग आकांक्षाज्ञानभां......तेन योग्यताभ्रमदशायां पुनरिष्टापत्तिरेव । ईश्वरकृतिव्यावृत्तं कृतिविशेषणत्वं शक्यतावच्छेदकमिति केचित् ॥ ४ ॥
(न्यायवा०) वैयाकरणमतमुपस्थापयति-कर्तृकर्मणीति । सामाना. धिकरण्याभिन्नाभ्यां धर्माभ्यामेकर्मियोधकत्वं, तच्च नामाख्यातस्य कर्तृत्वेन कर्तृबोधकं विना अनुपपन्नमिति भावः । ईशसामानाधिकरण्यं ययसिद्ध तदाह-अन्यथेति । आख्यातेनानभिहिते कर्तरीत्यर्थः । तयोस्तृतीयाद्वितीययोः । अविशिष्टत्वाम् कर्माख्यातेनापि कृत्यनाभिधानात् । तथा च कृत्यनभिधानमपि न तृतीयानियामकम् । कर्माल्यातस्थळे तृतीयानापत्तेरिति भावः । इदं प्राची मतेन ।
स्वमते कर्माख्यास्य कलवाचकरवं वक्ष्यति । कर्तृक गतसहयामिधाना