________________
१८३
१३ प्रन्थः] आख्यातशक्तिवादः। पत्तेः । पाकजनकादृष्टजनककृतेश्च न पाकजनकत्वं मानाभावात् । अतएव क्षित्यादेः कृत्यादिजन्यत्वे साध्ये तजनकादृष्टजनककृत्यादिना अर्थान्तरप्रसङ्गोऽपि प्रत्युक्तः । भावे वा तादृशकृतिनिवारणायादृष्टादारकत्वेन जनकतायास्त्वयापि वाच्यत्वात् । यत्नमात्रं शक्यं विषयित्वं जनकत्वं वा संबन्धमर्यादया भासत इति तु नव्याः ॥ ४॥ गच्छतीति न प्रयोगः । जनकत्वस्य गुरुत्वेऽप्यननुगस्या तस्यैव पाककृत्योः संसर्गतास्वीकारात् । अखण्डैव वा जनकत्वेत्यन्ये । नन्वीश्वरः पचतीति प्रयोगः स्यात्, तत्र रागजन्यतावच्छेदकजातेराख्यातयक्यतावच्छेदकत्वेन तथा प्रयोगाप्रसक्तः । न चैवं मीनशरीरेण वेदं पठंतीति धीन स्यात्, न ध्याच निश्चसितीत्यादौ जीवनयोनियत्नलाभ इति वाच्यम्, आख्यातस्य तत्र लाक्षणिकत्वात् , जीवनयोनियत्ने मानाभावाच । चेष्टादिद्वारा विलक्षणमेव जनकत्वं भासते । अतो नेश्वरः पचतीति प्रयोग इत्यनेन चात्मा पचतीति स्याद्विशेषदर्शिनामिष्टापत्तेः । नचै...चैत्रः पचतीति न स्यात् , चैत्रपदस्य चैत्रत्वावच्छिनात्मनि लाक्षणिकत्वात्।
केचित्तु सर्वत्रावच्छेदकत्वसम्बन्धेन कृतेरन्वयः, अतो नेश्वरः पचतीति प्रयोगः । न च त्वं पचसीत्यादिप्रयोगो न स्यात् , तत्र युष्मत्पदस्य संबोध्यात्मवाचकत्वात्, न स्याच मीनशरीरे वेदं पठतीति प्रयोगः, ईश्वरयनस्य शरीरानवच्छेद्यत्वात् इति वाच्यम्, तत्र युष्मत्पदस्य शरीरे लाक्षणिकत्याप्रतीतिबलाद्वयाप्यवृत्तेरप्यवच्छेदकत्वस्वीकारात् । न च हस्तः पचतीति प्रयोगः स्यात् , इष्टापत्तेः, हरति रिपुनृपाणामस्य पाणिः शिरांसीति प्रयोगादित्याहुः॥४॥
(रामकृ०) एवं यत्नस्यानुमानिकत्वे । कदाचित्पदान्तरेण यत्नोपस्थितावपि बाधकमाह । अन्यत्रेति अन्यत्र स्वार्थव्यापारादन्यस्याम् । स्थलान्तरे वा ॥ अथ यदा पाकजनकव्यापारस्तदा पाकजनकयत्न इति व्याप्त्या वर्तमानकालावृत्तित्वमनुमेयमिति वा । अथवा यो यदा यादृशव्यापारवान् इति व्याप्त्या वर्तमानकालावृत्तित्वममुमेयमिति वा । स तदा तादृशयत्नवानिति व्याप्त्या धर्मिणि वर्तमानतादृशयत्नवत्त्वमनुमेयमिति, तत्राद्यव्यभिचारेण दूषयति-यत्ने... १ कर्तृज इति पाठः। २ द्वारकत्वेन जनकताया रूढ्यापि वाच्यत्वादिति फारः।