Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 196
________________ १८२ वादार्थसंग्रहः [४ भागः सत्यं, चैत्रत्वाद्यप्रतीतावपि शोभनः पचतीत्यादौ शोभनादेःपाकजनकयत्नवत्त्वप्रतीतेरिति चेत्,सत्यं, तत्राख्यातस्य जनकयत्ने लाक्षणिकत्वात् । मैवं, जनकव्यापारमपेक्ष्य लाघवेन जनकयत्नस्यैव शक्यत्वात् । यत्नं विहाय जनकमात्रे शक्तिरस्तु लाघवात् तथा चाचेतनेऽपि प्रयोगो मुख्य एवेति चेत्, न, अपचत्यपि पाकजनकादृष्टवति पचतीति प्रयोगापाकानुकूलव्यापारेण तादृशव्यापारवत् चैत्रत्वेन तादृशयत्नसाधने दोषमाहचैत्रत्वाद्येति । हेतौ शब्दात् अप्रत्ययात् प्रकारान्तरेण प्रतीतिर्न सर्वत्रेति भावः । शोभनत्वस्य स्थाल्यादिसाधारणत्वात् शोभन सति ताहशव्यापारवत्वं न यत्नापेक्ष इति भावः । लाक्षणिकत्वादिति । तथा च तत्रैव वर्तमानान्वय इति । लाघवेनेति । व्यापारत्वापेक्षया यत्नत्वस्य जातित्वेन लाघवम् । व्यापारत्वस्याखण्डोपाधित्वे मानाभावः । सखण्डत्वे त्वननुगतत्वमिति तत्त्वम् । न च शक्यतावच्छेदकतया व्यापारस्वं सिद्धयति, येन रूपेण शाब्दबोधोऽनुभवसिद्धस्तस्यैव शक्यतावच्छेदकत्वकल्पनात् । अन्यथा भूत-मूर्त-विभु-पक्ष. व्यायादिपदानां शक्यतावच्छेदकताया अखण्डोपाधिसिद्धिः स्यात् । न स्याच पचति नश्यतीति जानातीत्यादौ यत्नप्रतियोगित्वज्ञानाश्रयस्वादिसंशयनिरासः । त्वन्मते लाघवेनाश्रयत्वादिसाधारणस्याखण्डोपाधेरेव प्रकारत्वात् । यत्तु पततीत्यत्र पतनानुकूलगुरुत्वभानात् गुरुत्वे एवाख्यातशक्तिाघवात् न । तथापि व्यापारे शकिनिरासात् । लाघवेन यत्ने शक्तेरनिराकरणात् । शंकते यत्नमिति । अचेतनेऽपि स्थाल्यादौ पचतीति प्रयोग इत्यर्थः । अदृष्टजनककृतिकाले पचतीति प्रयोगं वारयति-मानाभावादिति । तादृशकृते यवदृष्टं व्यापारस्तदाह-भावे वेति । ननु जनकत्वेन अदृष्टान्यैव व्यक्तिर्भासत इति व्युत्पत्तिः कल्पनीया अत आह-यत्नमात्रमिति । नान्तरीयशर्कराभोजनेऽपि शर्करामुक्त इति प्रयोगात् । तत्र च कृतिविषयत्वा. भावात् । अतो जनकत्वं वेति । अजनकयत्नेऽपि पाकविषयत्वसम्भवात् । अतो जनकत्वं वेति । अतएवामवातजडस्य गमनविषयके यस्ने सत्यपि १ अविनाभावम।

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238