Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 194
________________ १८० वादार्थसंग्रहः [ ४ भाग: कृञो यत्ने निरूढिलक्षणा, यदि क्रियायाश्रयमात्रेण न तत्प्रयोगः, एवञ्चाचेतनेऽपि पचतीत्यादिप्रयोगात् क्रियानुकूलव्यापारप्रतीतेर्बाधकं विना गौणत्वायोगात् जनकव्यापार एवाख्यातार्थः, तण्डुल क्रयणा- देव न पाकादिजनकत्वमिति नातिप्रसङ्गः । कथं तर्हि पचतीत्यादौ पाकजनकयत्नानुभव इति चेत्, यत्नाविनाभूत पाकादिना क्रियाविशेषकारणस्य यत्नस्यानुमानात् । पचति पाकविषयकयत्नवानिति तात्पर्यविवरणम् । अन्यथा धर्मिणोऽपि वाच्यतापत्तेः ॥३॥ -व्यवस्था विरहरूपबाधकमप्याह-आये बाधकं तदाश्रय इति द्वितीये कारकमिति । कारकमात्रस्यैव क्रियानुकूलव्यापारवत्त्वादित्यर्थः । अत एव कृताकृतविभागेन कर्तृरूपव्यवस्थया यत्न एव कृतिः पूर्वापरस्मिन् सैव भावना इत्याहुराचार्याः । तस्य कृञः । यदीत्यनेन तत्रापि प्रयोगोऽस्तीति सूचितम् | दहनो दाहकर्ता इत्यादिप्रयोगात् । तत्प्रयोगः कर्तृपदप्रयोगः । आख्यातस्य व्यापारवाचकत्वं साधयति एवं चेत्यादिना । एवं कृञो यत्नार्थकत्वाभावः । अचेतनेपीति । स्थाली पचतीत्यादिप्रयोगात् । रथो गच्छतीत्यादौ तु मतद्वयेऽपि गमनाश्रयत्वे लक्षणैव । जनकव्यापारेति । व्यापारश्च प्रकृते संयोगयत्नत्वादिसाधारणो जन्यमात्रमेव । ननु तण्डुलकय- यजनकत्वात्तमादाय पचतीति स्यात् अतस्तण्डुलेति । अन्यथा तवापि तन्दुलकयणानुकूलकृत्यादिनापि तथाप्रसङ्गादिति बोध्यम् । तर्हि आख्यातस्य 'यत्नबोधकed पाकादिनेति । पाकादियत्नासाध्य एवेति । व्याप्तिज्ञानादत्र पाकशब्दो धर्मपरः । इयं क्रिया यत्नजन्या पाकध्वात् । तादात्म्येन पाकाद्वा इत्यनुमानेन तदनुभव इति पचति पाकयस्नवानिति विवरणादेवाख्यातस्य यत्नार्थकत्वं स्यादत आह- पचतीति । तात्पर्येति । धूमोऽस्तीति वाक्पस्य वह्नाविवानुमानलभ्येऽर्थे वक्तुस्तात्पर्यसम्बन्धत्वादित्यर्थः । अन्यथा विवरणस्यैव शक्तिनिर्वाहकत्वे अनन्यलभ्यस्यापि शक्यत्व इति वा । धर्मिण: कर्तुः ॥ ३ ॥ (रामकृ०) ननु सर्वमिदं कृञो यत्नार्थकत्वे सिद्धे भवतीति तत्तु न सिद्धम्, 'अनुकूलव्यापाररूपक्रियामात्रस्यैव तदर्थत्वादिति, तत्सिसाधयिषुराह - कृञ इति । अनुकूलव्यापारीभूतसंयोगादिरूपक्रियाजन्यत्वाविशेषेऽपि । यत्नजन्यत्वाजन्य

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238