Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 164
________________ १५० वादार्थसंग्रहः । ४ भागः वस्तुतस्त्वाख्यातस्येव तृतीयाया अपि व्यापार एवार्थः । कर्माख्यातस्य च धात्वर्थफलनिरूपितमधिकरणत्वं, कर्मकृत आश्रयः, कर्तृकृतश्च व्यापाराश्रयः, कर्मकर्तृसामानाधिकरण्यानुरोधात् । जानातीत्यादिप्रयोगे तु पूर्वोक्तैव रीतिरनुसतव्या । चैत्रेण पच्यते पक्क इत्यादौ सुवर्थ एव व्यापारे वर्तमानत्वाद्यन्वयः । पचमानः पक्कवानित्यादौ पुनरनायत्या पदार्थतावच्छेदक एव व्यापार तदन्वयः । घटितधर्मायतिरिक्ताख्यातार्थस्य धात्वर्थविशेष्यत्वमेवेति व्युत्पत्तिभङ्गो नोचित इत्याशयेनाह-वस्तुतस्त्विति । 'आख्यातस्येव कर्तृविहिताख्यातस्येव । तृतीयाया अपीति । कर्मविहिताख्यातस्थले कर्मवाचकपदोत्तरतृतीयाया अपीत्यर्थः । अधिकरणत्वमिति । धात्वर्थनामार्थयोर्भेदेनान्वयचोधासंभवादिति भावः । एतच्च पूर्वकल्पसाधारणं, परंतु तस्कल्पे व्यापारोऽर्थः । अत्राधिकरणत्वमात्रम् । कर्मकृत इति । एतदुभयमपि पूर्वकल्पसाधारणम् । 'व्यापाराश्रयव्यापारवान्। नन्वत्रापि आश्रयत्वे व्यापारे च शक्तिः स्वीक्रियता किं विशिष्टशक्तिस्वीकारेणेत्यत आह-कर्मकर्षिति । कमकर्तृभ्यां कृदयस्याभेदान्वयबोधादित्यर्थः । जानातीत्यादौ फलव्यापारयोरप्रतीतेराह-जानातीत्यादि । पूर्वोक्तैवेति । धातोानादिकं प्रत्ययस्य यथायथमाश्रयत्व-विषयवादिकमर्थ इति भावः । एवं नश्यतीत्यादावपि प्रतियोगित्वादिकमों बोध्यः । ननु चैत्रेण पच्यत इत्यादौ यदि तृतीयाया एव व्यापारोऽर्थः, न तु धात्वाख्यातयोः, तदा व्यापारे वर्तमानवान्वयो न स्यात् । जानातीत्यादौ धात्वर्थ पचतीत्यादौ स्वार्थ एव वर्तमानत्वायनुभावकस्य लडादेव्युत्पन्नत्वात् , धात्वर्थफल एव तदन्वयाभ्युपगमेऽपि फलस्य वर्तमानत्वदशायां तथा प्रयोगापतेरत आह-चैत्रेणेति । तथा च फलबलादेवमपि क्वचिद्वयुत्पत्तिरिति भावः । पूर्वकल्पेऽपि चैत्रेण पक्कस्तण्डुल इत्यत्र इदं स्वीकार्यम्, तत्र तृतीयाया एवं व्यापारोऽर्थः कृतवाश्रयमात्रम् । अन्यथा कृतो व्यापाराश्रयाकल्वे कर्मणा सहान्वयप्रसङ्गादिति बोधनाय पक्व इत्युक्तम् । एतच्चापाततस्तृतीयान्तपदसमभिष्याहृते पच्यते तण्डुलः, तण्डुलः पक्व इत्यादी वर्तमानत्वादेरनन्वयप्रसङ्गात् । न च वर्तमानत्वादिकमनन्वितमेवेति वाच्यम् । तथा सति वक्ष्य

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238