Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१६० वादार्थसंग्रहः
[४ भागः विहितघनादीत्यत्रादिपदग्राह्यल्युट्प्रत्ययस्य व्यापारार्थकत्वे युक्तिमाह-नापीत्यादि । अत्र भावविहितल्युट्प्रत्ययस्य निरर्थकत्वे संयोगरूपफलमात्रस्य गमधात्वर्थे तस्य च घटभूतलोभयवृत्तितया घटभूतलयोर्मियोगमनमिति प्रयोगापत्तिर्दुरैिवेति तस्य व्यापारार्थकत्वमावश्यकमिति भावः।।
नन्वेतन्मते कर्मत्वं न धात्वर्थतावच्छेदकफलशालित्वम् । फलस्यैतन्मते धात्वर्थतया धात्वर्यतावच्छेदकत्वाभावेन तथा लक्षणस्यासंभवदुक्तित्वात् । नापि परमात्रसमवेतव्यापारजन्यधात्वर्थफलशालित्वं तत् । स्वात्मानं प्रयाति विहग इति प्रयोगापत्तेः । विहगस्य स्वस्मात्परो य: स्वावयवस्तत्समवेतो यः स्वात्मकव्यापारः तजन्यधात्वर्थसंयोगात्मकफलशालित्वादित्यत आह-प्रत्ययोपनीतेति । प्रत्ययोपनीतो यः परसमवेतव्यापारस्तजन्यं यद्धात्वर्यफलं तच्छालित्वमेतन्मते कर्मत्वमित्यर्थः । तथाविधस्वात्मकव्यापारस्य प्रत्ययोपनीतत्वाभावेन न स्वात्मानं प्रयाति विहग इति प्रत्ययप्रसङ्गः । न चात्र व्यापारपदं व्यर्थमिति वाच्यम् , व्यापारत्वेन प्रत्ययोपनीतत्वप्राप्तये तस्योपादानात् । अन्यथा वर्तमानत्वादिः प्रत्ययोपनीतो यः परसमवेतकालोपाधिस्तजन्यधात्वर्थफलशालित्वेन स्वात्मनोऽपि कर्मत्वसंभवे न स्वात्मानं प्रयाति विहग इति प्रत्ययापत्तिः । न च तथापि धात्वर्थेति व्यर्थ गच्छतीत्यादौ पूर्वदेशस्यापि कर्मत्वापत्तिः, तथापि प्रत्ययोपनीतो यः परसमवेतव्यापारस्तजन्य फलं विभागस्तच्छालित्वात् तदुपादाने च न तथापत्तिः । तस्य धात्वर्थत्वाभावात् । अत्र परसमवेतत्वं कर्मप्रत्ययार्थः । तस्य च क ख्यातस्थले आख्यातार्थव्यापारे कर्माख्यातस्थले च निष्कृष्टमते तृतीयार्थव्यापार एवान्वय इति । परत्वं तु धात्वर्थे आधेयतासंबन्धेन यदन्वेति तदपेक्षया धात्वर्थेऽधिकरणतासंबन्धेन यत्रान्वेति तदपेक्षया च बोध्यम् । इत्थं च ग्रामं गच्छतीत्यादौ ग्रामवृत्तिसंयोगजनकग्रामभिन्नसमवेतव्यापारवांश्चैत्रः । चैत्रेण ग्रामो गम्यते इत्यत्र चैत्रवृत्तिग्रामभिन्नसमवेतव्यापारजन्यसंयोगशाली ग्राम इति बोधः । ननु कर्ताख्यातकर्माख्यातयोर्व्यापारत्वरूपैकधर्मावच्छिन्नबोधकत्वे कथमेकत्र कर्तृप्रत्ययव्यवहारोऽत आह-फलव्यापारयोरिति । तथा च फलस्य विशेषणत्वे व्यापारस्य विशेष्यत्वे कर्तृप्रत्यय इति व्यवहारः । एवं फलस्य विशेष्यत्वे व्यापारस्य विशेषणत्वेन च कर्मप्रत्ययव्यवहार इति भावः।
ननु कर्माख्यातस्थले धात्वर्थफलस्य साक्षान्नामार्थेऽन्वयबोधाङ्गीकारे नामार्थ. धात्वर्थयोः साक्षाढ़ेदान्वयबोधो नाङ्गीक्रियते इति व्युत्पत्तिभङ्ग इत्यत आइ१ चैत्र इति यावत्-इति पाठः ।
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238