Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 190
________________ १७६ ' वादार्थसंग्रहः। [४ भागः ज्ञानप्रयोज्यतत्तद्विशेष्यतातिरिक्तविशेष्यतासम्बन्धेन तण्डुलप्रकारकबोधे विभक्त्यर्थोपस्थितेहेतुता बोध्या । यद्वा- यत्र तण्डुलं कुरु इत्यादौ द्वितीयायाः पाकादौ लक्षणा, तत्र पाकविशेष्यकतण्डुलप्रकारकबोधे विभक्त्यर्थोपस्थिते. हेतुत्वं क्लृप्तमिति तदभावात्तण्डुलः पचतीत्यत्र शाब्दधीः । एवं गच्छतीप्यत्र यत्राख्यातस्य रथादौ लक्षणा तत्र रथविशेष्यकगमनान्वयबोधे विभक्त्यर्थोपस्थितेहेतुस्वकल्पनात् । अन्यत्र रथो गच्छतीत्यादौ आश्रयत्वे लक्षणा । यदि व्याख्यातस्य रथादौ लक्षणास्थले पदजन्यरथोपस्थितित्वेनैव हेतुत्वं, न तु विभक्त्यर्थोपस्थितित्वेनेति विमृश्यते तदा धात्वर्थस्य रथादौ साक्षादन्वयेनातुपपत्तिगन्धोऽपि । मणिकृतामाशयोऽप्ययमेव । अतएव चैत्रो जानातीत्यादौ ज्ञानान्वयः साक्षादेव तैः समर्थितः । अन्ये तु सामान्यतो नामार्थप्रकारकबोधे विभक्त्यर्थोपस्थितेर्हेतुत, न तु विशिष्यतण्डुलादिप्रकारकबोधे गौरवात् । नामवं चात्र विभक्तिभिन्नत्वम् । अतो धात्वर्थप्रकारकबोधेऽपि विभक्त्यर्थो. पस्थितिरपेक्षितस्याहुः। अत्रेदै बोध्यम्-पूर्वोक्ततन्दुलादिप्रकारकबोधे विभक्त्यर्थोपस्थितेहेतुतायां निपातातिरिक्तत्वं देयम् । तेन तण्डुलो नास्तीत्यादौ न व्यभिचारः । निपातातिरिक्तत्वं च...प्रकारे विशेष्ये च विशेषणम् । तेनाभावः पश्यतीत्यादौ शाब्दबोधाभावादभावप्रकारकबोधे विभक्त्यर्थोपस्थितेर्हेतुताकल्पने घटः पटो नेत्यादौ अभावस्य पटे साक्षात्प्रकारस्वेऽपि न दोषः । अत्र यद्यपि निपाता. तिरिकपदार्थत्वमप्रसिद्ध सर्वेषामेव तत्पदार्थत्वात् , तथापि निपातजन्योपस्थिति-प्रयोज्य-तत्प्रकारतानिरूपित-विशेष्यताभिन्नत्वे सति निपातजन्योपस्थिति-प्रयोज्य-तत्तद्विशेष्यताभिन्ना या विशेष्यता तत्सम्बन्धेन नामार्थप्रकारक. बोधे विभक्त्यर्थोपस्थितिहेतुरिति । यत्तु निपातजन्यनामार्थप्रकारकबोधे विभक्त्यर्थोपस्थितिहेतुरिति, तन्न, भूतल न घटः घटः प्रमेय इत्यस्य शान्दबोधस्य घटवद्भूतलमित्याकारतापत्तेः, अस्य निपातजन्यवाद । यद्वा-तन्दुलप्रकारकबोधे तण्डुलपदोत्तरनिपातातिरिकप्रकृतिभिन्नजन्योपस्थितिः कारणम् । तद्भिनत्वं निपातो विभक्त्यर्थो वा। अर्थेवं घटो नश्यतीत्यादौ घटाभावं पश्यतीति शाब्दधीः स्यात्, नमो निपातत्वात् । न च धात्वर्थविशेष्यतानिरूपितप्रकारतासम्बन्धेन अन्वये धियं प्रति विशेध्यतया विभक्त्यर्थोपस्थितेः कारणत्वं...कल्प्यम् । गज इव गच्छति पिक इव रौतीत्यादौ इवार्थस्य गमनादौ प्रकारत्वात् । न च गजसादृश्यं गमने बाधितम, गजपदादेर्गजगमनादौ लाक्षणिकवादिति चेत्, न, गजसादृश्यस्य कर्तर्येवान्वयात् गजादिगमनसादृश्यगमनत्वमेवेति ।

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238