Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 191
________________ १३ ग्रन्थः ] माख्यातशक्तिवादः। केचित्तु नामार्थयोभेदेनान्वयबोधे विभक्त्यर्थोपस्थिते न हेतुत्वं, किन्तु निपातातिरिक्तनामार्थप्रकारकनामार्थविशेष्यकबोधे निपातजन्योपस्थितिविशेप्यतया हेतुः । निपातातिरिक्तपदात् घट: पटो नेत्यत्र भेदस्य घटप्रकारत्वेऽपि न दोष इत्याहुः । तन्न, तण्डुलं पचतीत्यादौ बोधवारणाय उक्तप्रकारस्यावश्यकत्वात् । परे तु तण्डुलं पचति जानातीत्यादौ कर्मत्वादिकं संसर्गोऽपि । तण्डुलः पचतीयादावन्वयाबोधात्तन्दुलादिप्रकारकबोधे प्रथमान्यविभक्त्यर्थोपस्थिते. रेकरवान्यविभक्त्यर्थोपस्थितेर्वा हेतुस्वकल्पनात् । कार्यतावच्छेदकसम्बन्धस्तु समवायः । अत एव जानाति चैत्र इति शाब्दबोधे ज्ञानवान वेति न संशयः । यद्वा-तण्डुलः पचति ज्ञानं चैत्र इत्यादिसमभिव्याहारस्तु तण्डुलादिप्रकारकशाब्दबोधे प्रतिबन्धकः। तण्डुलं पचति चैत्रो जानातीत्यादिसमभिव्याहारजन्या उपस्थितयः, उत्तेजिका विशिष्टाभावे सति पाकचैत्रादौ तण्डुलः ज्ञानादिप्रकारको. बोध इत्याहुः ॥ २॥ (रामकृ०) ननु रथो गच्छतीत्यादौ नोदके क्रियोसत्तिर्न भवतीति तद्वथावृत्तः कश्चिदनुकूलोऽस्ति क्रियोत्पत्तौ स एव व्यापारत्वेन विवक्ष्यताम् । नोदनस्यैव वा सम्बन्धविशेषः क्रियाप्रयोजकत्वेन व्यापारत्वेन स्वीक्रियताम् । जानामीत्यादिचतुष्टये च तादृशव्यापारस्य मनःसंयोगस्य मनोऽतिप्रसञ्जकत्वेऽपि विशिष्टज्ञानमादाय जानातीत्यत्र इच्छतीत्यादित्रितयसामान्ये च ज्ञानस्य यतत इत्यत्र चेच्छायाश्च तादृशव्यापारत्वमस्त्विति चेदित्यादिकं विभाव्यैव वक्ष्यति-अप्रतीतेरिति । नत्वभावादिति गत्यादिमत्त्वमात्रप्रतीतेश्चेति च । अत्र निद्रातीत्यत्र निद्रामन:संयोगादिरूपायां निद्रायामिच्छाघटितपरम्परयेवाश्रयत्वं वक्तव्यम् । अतो नातिप्रसङ्गातिप्रसङ्गो । रथो गच्छतीत्यादावाख्यातलक्षणं विना रथगमनयोरन्वये बाधकमाह-चैत्रेत्यादि । एकत्र कर्मतासंसर्गेण तण्डुलत्वप्रकारकबोधाभावः, परत्र कर्तृतासंसर्गेण चैत्रप्रकारकबोधाभावः । अत्र प्रथमयैव साधुस्वनिर्वाहे साधुत्वज्ञानस्यासाधुत्वनिश्चयाभावस्य हेतोः सत्त्वेऽपि शाब्दबोधाभावो निराकांक्षत्वादेवेति भावः । साक्षादिति स्वरूपकथनम् । भेदेनेत्युपादानात् स्तोकं पचतीत्यादिव्यावृत्तम् । अत्र यद्यपि विशेष्यतासम्बन्धेनामेदातिरिक्त-सम्बन्धकप्रातिपदिकार्य-प्रकारकबोधं प्रति निपातसुप्तद्धिताधन्यतरजन्योपस्थितेविषयतया कारणत्वकल्पनयैव तदतिप्रसङ्गवारणं सम्भवति । प्रकृते च धात्वर्थप्रकारक-प्रातिपदिकार्यविशेष्यकबोधे किमपि बाधकं नोक्तं वथापि धात्वर्थप्रकारकबोधस्य विशेष्यतासम्बन्धेन नामार्थे अभावात् विशे

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238