________________
१७६
' वादार्थसंग्रहः। [४ भागः ज्ञानप्रयोज्यतत्तद्विशेष्यतातिरिक्तविशेष्यतासम्बन्धेन तण्डुलप्रकारकबोधे विभक्त्यर्थोपस्थितेहेतुता बोध्या । यद्वा- यत्र तण्डुलं कुरु इत्यादौ द्वितीयायाः पाकादौ लक्षणा, तत्र पाकविशेष्यकतण्डुलप्रकारकबोधे विभक्त्यर्थोपस्थिते. हेतुत्वं क्लृप्तमिति तदभावात्तण्डुलः पचतीत्यत्र शाब्दधीः । एवं गच्छतीप्यत्र यत्राख्यातस्य रथादौ लक्षणा तत्र रथविशेष्यकगमनान्वयबोधे विभक्त्यर्थोपस्थितेहेतुस्वकल्पनात् । अन्यत्र रथो गच्छतीत्यादौ आश्रयत्वे लक्षणा । यदि व्याख्यातस्य रथादौ लक्षणास्थले पदजन्यरथोपस्थितित्वेनैव हेतुत्वं, न तु विभक्त्यर्थोपस्थितित्वेनेति विमृश्यते तदा धात्वर्थस्य रथादौ साक्षादन्वयेनातुपपत्तिगन्धोऽपि । मणिकृतामाशयोऽप्ययमेव । अतएव चैत्रो जानातीत्यादौ ज्ञानान्वयः साक्षादेव तैः समर्थितः । अन्ये तु सामान्यतो नामार्थप्रकारकबोधे विभक्त्यर्थोपस्थितेर्हेतुत, न तु विशिष्यतण्डुलादिप्रकारकबोधे गौरवात् । नामवं चात्र विभक्तिभिन्नत्वम् । अतो धात्वर्थप्रकारकबोधेऽपि विभक्त्यर्थो. पस्थितिरपेक्षितस्याहुः।
अत्रेदै बोध्यम्-पूर्वोक्ततन्दुलादिप्रकारकबोधे विभक्त्यर्थोपस्थितेहेतुतायां निपातातिरिक्तत्वं देयम् । तेन तण्डुलो नास्तीत्यादौ न व्यभिचारः । निपातातिरिक्तत्वं च...प्रकारे विशेष्ये च विशेषणम् । तेनाभावः पश्यतीत्यादौ शाब्दबोधाभावादभावप्रकारकबोधे विभक्त्यर्थोपस्थितेर्हेतुताकल्पने घटः पटो नेत्यादौ अभावस्य पटे साक्षात्प्रकारस्वेऽपि न दोषः । अत्र यद्यपि निपाता. तिरिकपदार्थत्वमप्रसिद्ध सर्वेषामेव तत्पदार्थत्वात् , तथापि निपातजन्योपस्थिति-प्रयोज्य-तत्प्रकारतानिरूपित-विशेष्यताभिन्नत्वे सति निपातजन्योपस्थिति-प्रयोज्य-तत्तद्विशेष्यताभिन्ना या विशेष्यता तत्सम्बन्धेन नामार्थप्रकारक. बोधे विभक्त्यर्थोपस्थितिहेतुरिति ।
यत्तु निपातजन्यनामार्थप्रकारकबोधे विभक्त्यर्थोपस्थितिहेतुरिति, तन्न, भूतल न घटः घटः प्रमेय इत्यस्य शान्दबोधस्य घटवद्भूतलमित्याकारतापत्तेः, अस्य निपातजन्यवाद । यद्वा-तन्दुलप्रकारकबोधे तण्डुलपदोत्तरनिपातातिरिकप्रकृतिभिन्नजन्योपस्थितिः कारणम् । तद्भिनत्वं निपातो विभक्त्यर्थो वा। अर्थेवं घटो नश्यतीत्यादौ घटाभावं पश्यतीति शाब्दधीः स्यात्, नमो निपातत्वात् । न च धात्वर्थविशेष्यतानिरूपितप्रकारतासम्बन्धेन अन्वये धियं प्रति विशेध्यतया विभक्त्यर्थोपस्थितेः कारणत्वं...कल्प्यम् । गज इव गच्छति पिक इव रौतीत्यादौ इवार्थस्य गमनादौ प्रकारत्वात् । न च गजसादृश्यं गमने बाधितम, गजपदादेर्गजगमनादौ लाक्षणिकवादिति चेत्, न, गजसादृश्यस्य कर्तर्येवान्वयात् गजादिगमनसादृश्यगमनत्वमेवेति ।