________________
१३ ग्रन्थः ] याख्यातशक्तिवादः । मैत्रः पच्यते तण्डुल इत्यादावन्वयाबोधात् धात्वर्थप्रातिपदिकार्थयोर्भेदेन साक्षादन्वयस्याव्युत्पन्नतया संबन्धमर्यादया तद्भानस्यासंभवादिति तु नव्याः॥२॥ यतासम्बन्धेन रथादौ गमनादेोधोऽस्तु कृतलक्षणया । अतश्चैत्रः पचतीत्यादि । भेदेन अभेदातिरिक्तसम्बन्धेन । शिवस्तु तेन स्तोकं पचतीत्यादौ स्तोकपाकयोरभेदान्वये बोधेऽपि न व्यभिचारः । सत्ता तदंशे प्रकारतया । तण्डुल पच. तीत्यत्र पाकप्रकारीभूतकर्मत्वे प्रकारतया परम्परान्वयोस्तीति तब्यवच्छेदायेदम् । ___ अयमर्थः-यदि क्रियानामार्थयोः साक्षात्सम्बन्धस्तदा तण्डुलः पचतीत्यादौ कर्मतासंसर्गेण पाके तन्दुलस्य चैत्रः पच्यते इत्यत्र कर्तृतासंसर्गेण पाके मैत्र. स्यान्वयप्रसङ्गः, तद्भानस्याश्रयत्वादिभानस्य । न च पचति तण्डुल इत्यत्राख्यातेन कर्मत्वानभिधानाद्वितीयैव साधुः, एवं मैत्रः पच्यते इत्यत्राख्यातेन कर्तृत्वानभिधानात् तृतीयैव साधुः, तथा चासाधुत्वज्ञानादेव न शाब्दधीरिति वाच्यम् , असाधुत्वज्ञानाभावे काले शाब्दधीप्रसङ्गात् । अनभिहिते कर्मस्वादौ तत्प्रकारकबोधे एव द्वितीयादिः साधुरिति तत्संसर्गबोधेन दोष इति कश्चित् । नन्वत्राभेदेन नामार्थप्रकारकान्वयबोधोऽप्रसिद्धः, प्रसिद्धौ विभक्त्यर्थोपस्थितेव्यभिचार एवेति ।
न च कर्मताविशेष्यक-तण्डुलप्रकारकान्वयबोधे तन्दुलवाचकपदोत्तर-विभक्तिजन्यकर्मत्वोपस्थितिः कारणम्, एवं कर्तृत्वादावपि तण्डुलः पचतीत्यादौ तथाकार्यकारणभावाकल्पनान शाब्दधीरिति वाच्यम् । एवं सति तण्डुलपदोत्तरद्वितीयारूपाकाङ्क्षाज्ञानादीनां कर्मत्वादिविशेष्यकबोधे हेतुत्वस्य क्लृप्तत्वात तदभावादेव न शाब्दधीरिति कृतम् । विभक्त्यर्थोपस्थितेहेतुतर्यो......त चेन्न, नामार्थप्रकारकबोध प्रति विभक्तिजन्यायाः प्रत्ययजन्याया एव वा उपस्थितेतत्वात् । तत्र च समानविशेष्यकरवं प्रत्यासत्तिः । तथा च पाकादौ विभक्त्यर्थोपस्थितेरभावात्तन्दुलः पचतीत्यादौ न शाब्दधीरिति । न च तण्डुल. पदोत्तरद्वितीयारूपाकाङ्क्षाज्ञानाभावादेव न तथा, तस्याः कर्मस्वविशेष्यकबोधे हेतुस्वात्तदभावेऽपि सामान्यसामग्र्या कार्यापादनसम्भवात् । द्वितीयाया प्रमाहीनशक्तेस्तण्डुलः कर्मस्वमिति पदात् कर्मत्वोपस्थितावपि तण्डुलं पचतीयादितोऽन्वयबोधाद्विभक्त्यर्थोपस्थितेहेतुतया अवश्यवाच्यत्वाघ । एवं धात्वर्थप्रकारकान्क्यबोधे विभक्त्यर्थोपस्थितेः सामान्यविशेष्यतया हेतुत्वमिति । . त्यो गच्छतीत्यादौ गमनादेः साधाइन्वयः । तण्डुलो भवतीत्वादौ यत्र तण्डुलपदस्य तण्डुलपाके लक्षणा, तत्र व्यभिचावारणाय वाला विशिष्टे वृषि