________________
१७४ वादार्थसंग्रहः
[४ भागः अन्यदीयगमनानुकूलनोदनादिमति गच्छतीत्यप्रयोगात् जानातीच्छति-यतते-द्वेष्टि-विद्यते-निद्रातीत्यादौ च क्रियानुकूल-कृति-व्यापारयोरप्रतीतेः गत्यादिमत्त्वमात्रप्रतीतेश्चाश्रयत्वे नश्यतीत्यादौ च प्रतियोगित्वे निरूढलक्षणा । चैत्रः पचति तण्डुलः (न्यायवा०) नवीनमतमाह-अन्यदीयेत्यादिना । नोदनादीति । आदिपदादभिघातादिसंग्रहः । निश्चलेऽपि पुरुषे रथगमनानुकूलव्यापारवति गच्छतीति स्यादित्यर्थः । न च ग्रामं गच्छतीच्यादौ यथावधिगमनसमये स्वरूपयोग्यतां प्रयोजकतां वा आदाय तथा प्रयोगः, तथानोदनानुकूलयत्नवति पुरुषे शक्त्यैव गच्छतीति धीः कुतो न स्यादिति वाच्यम् , तत्र तादृशप्रयोजकताव्यापारवृत्तप्रयोजकतैव गमनकृत्योः सम्बन्ध इति नातिप्रसङ्गः । इह तु नोदनाख्यो रथपुरुषनिष्ठ एक एव व्यापारः, स चेद्रयो गच्छतीति व्यवहार जनयेत्तदा पुरुषो गच्छत्यपीति भावः । ननु गमनविशिष्टो व्यापारस्तत्र भासते इति वाच्यमत आह-जानातीति द्वेष्टीत्यन्तं प्रयोगवाहुल्यदर्शनाय । नन्वत्रापि ज्ञानं विशिष्ट एव व्यापारो यत्नः संयोगादिस्तत्र भासते अतो विश्ते इति सत्तावर्तमानशे......ल......सम्बन्धः । तदनुकूलो व्यापारो गुणादौ मुतरां नास्तीति भावः । निद्रातीति । मिडाख्यनारममनःसंयोग एव निद्रा, तदनुकूलो व्यापार असाधारणो व्यापारस्तदानीमात्मनि नास्ति, अदृष्टं तु साषारणमेवेति भावः । न च मिहामनःसंयोगस्य निद्रवे मनो निद्रातीति स्यात्, परम्पराप्सम्बन्ध विशेषेणैव तद्भानात् । केचित्तु द्वेष्टीत्यन्तेन द्वेषायनुकूलकृतिव्यक्च्छेदः, विद्यतेत्यादिना व्यापारव्यवच्छेद इत्याहुः।। - अनुभव प्रमाणमाह-गत्यादीति । नश्यतीत्यादौ नाशानुकूलव्यापारस्याअयत्वस्य वा बोधे हन्तरि कपाकादौ च नश्यतीति प्रसङ्गः । गमनार्थकगमिधातुसमभिव्याहताख्यातस्य गमनाश्रयत्वप्रकारकबोधत्वं कार्यतावच्छेद. कम् । अतस्त्वं गच्छतीत्वादावपि युष्मत्पदादेः शरीरविशेष लक्षणेत्यपि क्वन्ति । निरूढेति । अनादिप्रयोगसत्त्वेऽपि यत्नत्वापेक्षया गौरवात् । न शक्तिः किन्तु निरूतुलक्षणैव । अनादिप्रयोगानुसारिणी लक्षणा निस्टलक्षणा । इत रावपपत्तिज्ञान विना बोषिका लक्षणा वा सा । नतु रथो मच्छतीत्यादौ भाषे
१ अनान्यत्र च गलिता ग्रन्थः । अतस्तत्तत्स्थाने......एतद्विधं चिहं निवेशितम् । एवमेवाग्रेऽपि ज्ञेयम् ।