SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः] आख्यातशक्तिवादः। १७३ च जायते नानुमितिः । तदनन्तरमपीच्छाघटितसामग्र्या बलवत्त्वान्निर्वह्निपर्वतज्ञानमाहार्यमुपनीततादृशेष्टसाधनतादिविषयकं जायते, ततस्तादृशेच्छा, ततः पुनरपि तादृशं ज्ञानमिति क्रमेणानुमितिनं जायत एवेति । यदा पुनर्विषयपरिशोधकतर्कावतारस्तदा तर्कात्मकनिघूमत्वप्रकारकपर्वतज्ञानरूप-द्विष्टसाधनताज्ञानात्मकेन तादृशपरामर्शेन विनश्यदवस्थज्ञानोत्पादितस्वपूर्वकालीन-निघूमत्वप्रकारक-पर्वतज्ञानसहकृतेन द्वितीयक्षणे निर्वह्नित्वप्रकारकपर्वतज्ञाने द्वेष एव जायते, न पुनर्निर्वह्नित्वप्रकारक-पर्वतज्ञाने इच्छाद्वेषस्येव द्वेषसामग्र्या अपि विरोधिसामग्रीत्वेनेच्छाप्रतिबन्धकत्वात् तदनन्तरमपि नेच्छाद्वेषेण प्रतिबन्धात् द्वेषोऽपि तदा न जायते, तत्पूर्व फलद्वेषाभावात् । अनुमितिसामग्री तु निराबाधा प्रवर्तते इति भवत्यनुमितिरिति । नन्वेवमपि तर्को व्यर्थः, तदानीं फलेच्छाया अभावेनैवेच्छासामध्यभावादनुमित्युत्पत्तौ बाधकाभावादिति चेत् , न, फलेच्छाया अकारणत्वात् , इष्टसाधनताज्ञानेन तस्याः कारणतावच्छेदकत्वात् । तदवच्छेदकत्वं च तस्या एककालावच्छेदेन एकात्मवृत्तित्वेन । कालश्चात्रानुभवानुसारेण क्षणद्वित्रात्मकः स्थूलो ग्राह्यः । इत्थमेव बलवदनिष्टाननुबन्धीष्टसाधनताज्ञानस्य कारणत्वं संगच्छते । अन्यथा द्वेषेच्छाज्ञानानामेकदा मिलनाभावादसङ्गतेः। एवं तदानीमपि क्षणद्वयपूर्व फलेच्छासत्वादिच्छासामग्री निराबाधेवेति सुधीभिर्विभावनीयम् । एवं च वह्निश्चेत्प्राज्वलिष्यत् ओदनमपाक्षीदित्यादौ प्रज्वलनाश्रयवयभावप्रयुक्तौदनकर्मकपाकाभाववानिति बोधः । अत्र च पूर्वप्रतीके वह्निपदे स्वाभावे लक्षणा । प्रयुक्तत्वं चेत्पदार्थः । उत्तरप्रतीके चाख्यातस्यैवाभावोऽर्थः । निष्ठत्वं च प्रथमार्थः । उत्तरप्रतीके चाख्यातस्यैवाभावोऽर्थः । यद्वा-वहि. निष्ठप्रज्वलनाभावप्रयुक्त-प्रज्वलनाभावप्रयुक्त-तादृशपाकाभाववानित्येव बोधः । एवं चोभयप्रतीके आख्यातस्यैवाभावोऽर्थः । निष्ठत्वं च प्रथमार्थः । स च धात्वर्थे चेति । वह्निपदे वह्निकर्तृकलक्षणया वह्निकर्तृक-प्रज्वलनाभावप्रयुक्तौदनकर्मकपाकाभाववानिति बोध इति कश्चित् । तच्चिन्त्यम् । वन्हिपदस्थक्रियाविशेषणत्वे द्वितीयाद्यापत्तेः । यत्नार्थकत्वं विनेति । अन्यथा पाकविषयव्यापारवानिति बोधस्य प्रश्नविषयत्वाभावेन ततः प्रश्नानिवृत्तिप्रसङ्गात् । अचेतनेत्यादिलक्षणेऽत्यन्तं प्राचां मतम् ॥ १ ॥
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy