________________
१७२
वादार्थसंग्रहः [४ भागः किमिति । एतादृशप्रश्नोत्तरभावस्तु सर्वसंमत इत्यभिप्रायः। यद्वा-पाकमित्यशब्दार्थकर्मत्वस्य विवरणवदिदमुपपत्स्यत इत्याशङ्कायामाह-किमिति । किमादिशब्दस्य प्रश्नविषयत्वेन रूपेण शक्तेः। किं करोतीत्यादिवाक्येन प्रश्नविषयनिरूपितविषयिताश्रयकृत्याश्रयतावानिति जनितो बोधः। कृतिविषयस्य प्रश्नविषयत्वमादाय पर्यवस्यतीति ताशप्रश्ननिवृत्तये पचतीत्युत्तरम् । प्रश्नो यद्यपि जिज्ञासैव, सा च सामान्यतो न सम्भवति, स्वकारणीभूतज्ञानस्यैवान्ततःसिद्धत्वात्। अत एव सामान्यतो घटज्ञानेच्छा न सम्भवति, कारणीभूतघटज्ञानज्ञानस्यैव घटज्ञानत्वात् । किन्त्वसिद्धप्रत्यक्षादिगोचरा भवति । तथा च प्रकृतेप्युक्तरीत्या प्रश्नविषयविषयकज्ञानसत्त्वात् सामान्यतो जिज्ञासा दुर्लभा, तथापि वस्तुगत्या ये कृतिविषयत्वव्याप्यपाकत्वादिप्रकारकाः पचति गच्छतीत्यादि. प्रत्यया: तदन्यतरेष्वेव कृतिविषयगोचरज्ञानत्वादि...सामान्यरूपेणेच्छा । सा च तदन्यतरसिद्धावेव निवर्तते । अतएव किं पचतीत्यादावपि ओदनं पचति सूपं पचतीत्यादिप्रकारकज्ञानानामन्यतमेष्वेव सामान्यत इच्छा । सा च ओदर्न पचतीत्यायेकतरज्ञाने जात एव निवर्तत इति किंशब्दात्तादृशजिज्ञासाविशेषमवगत्य श्रोतुस्तथैवोत्तरं प्रश्नवाक्यस्थपचतीत्यनेन साकाङ्क्ष कदाचिदोदनमिति, कंदाचिदोदनं पचतीति । एवं किं द्रव्यमित्यादावपि । द्रव्यत्वव्याप्यघटत्वपटत्वादितत्प्रकारकज्ञानेष्वेव द्रव्यत्वव्याप्यप्रकारकज्ञानत्वेन द्रव्यज्ञानत्वेन ज्ञानत्वेन वा जिज्ञासा । उत्तरमपि तदनुरूपमेव । प्रतिबन्धकश्च तादृशजिज्ञासायाः सामाधिकरण्येन स्वविषय एवेति न काऽप्यनुपपत्तिः । एवं निर्वहिः स्यान्निधूमः स्यादित्यादिशब्दस्थले निर्वह्नित्वप्रकारक-पर्वतज्ञानप्रयुक्त-निघूमत्वप्रकारकशानविषयोऽयमिति बोधः स्यात्पदनिर्धूमपदनिर्वह्निपदैलक्षणादिना समर्थनीयः । अत एव निधूमत्वप्रकारक-पर्वतज्ञानद्वेषप्रयुक्तस्तत्प्रयोजक-निर्वह्नित्वप्रकारकपर्वतज्ञाने द्वेषो जायत इति तादृशज्ञानेच्छा निवर्तते । ततश्च बलवत्या आहार्यतादृशनिर्वह्नित्वज्ञानसामग्र्या निवृत्तौ निराबाधानुमितिरिति रीत्या परिशोधकस्य तकस्यानुमितावुपयोगः। .. अथ सति बाधाभावे परामर्शनाहत्यानुमितिरेव जन्यत इति कुत्र विषयपरिशोधकस्य तर्कस्योपयोग इति चेत् यत्र निर्वह्विपर्वतज्ञानगोचरेष्टसाधनता. विषयको निर्वहिपर्वतज्ञानस्य निर्धूमत्वप्रकारकपर्वतज्ञानातिरिक्तफलगोचरेष्टसाधनताविषयकश्च वहिव्याप्यधूमपरामर्शः । तदनु च तत्पूर्वकालीनफळेच्छायाः सत्त्वेनेच्छासामग्र्या बलवत्त्वेनेच्छैव निर्वह्निपर्वतज्ञानविषयिणी तत्फलविषयिणी