SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६० वादार्थसंग्रहः [४ भागः विहितघनादीत्यत्रादिपदग्राह्यल्युट्प्रत्ययस्य व्यापारार्थकत्वे युक्तिमाह-नापीत्यादि । अत्र भावविहितल्युट्प्रत्ययस्य निरर्थकत्वे संयोगरूपफलमात्रस्य गमधात्वर्थे तस्य च घटभूतलोभयवृत्तितया घटभूतलयोर्मियोगमनमिति प्रयोगापत्तिर्दुरैिवेति तस्य व्यापारार्थकत्वमावश्यकमिति भावः।। नन्वेतन्मते कर्मत्वं न धात्वर्थतावच्छेदकफलशालित्वम् । फलस्यैतन्मते धात्वर्थतया धात्वर्यतावच्छेदकत्वाभावेन तथा लक्षणस्यासंभवदुक्तित्वात् । नापि परमात्रसमवेतव्यापारजन्यधात्वर्थफलशालित्वं तत् । स्वात्मानं प्रयाति विहग इति प्रयोगापत्तेः । विहगस्य स्वस्मात्परो य: स्वावयवस्तत्समवेतो यः स्वात्मकव्यापारः तजन्यधात्वर्थसंयोगात्मकफलशालित्वादित्यत आह-प्रत्ययोपनीतेति । प्रत्ययोपनीतो यः परसमवेतव्यापारस्तजन्यं यद्धात्वर्यफलं तच्छालित्वमेतन्मते कर्मत्वमित्यर्थः । तथाविधस्वात्मकव्यापारस्य प्रत्ययोपनीतत्वाभावेन न स्वात्मानं प्रयाति विहग इति प्रत्ययप्रसङ्गः । न चात्र व्यापारपदं व्यर्थमिति वाच्यम् , व्यापारत्वेन प्रत्ययोपनीतत्वप्राप्तये तस्योपादानात् । अन्यथा वर्तमानत्वादिः प्रत्ययोपनीतो यः परसमवेतकालोपाधिस्तजन्यधात्वर्थफलशालित्वेन स्वात्मनोऽपि कर्मत्वसंभवे न स्वात्मानं प्रयाति विहग इति प्रत्ययापत्तिः । न च तथापि धात्वर्थेति व्यर्थ गच्छतीत्यादौ पूर्वदेशस्यापि कर्मत्वापत्तिः, तथापि प्रत्ययोपनीतो यः परसमवेतव्यापारस्तजन्य फलं विभागस्तच्छालित्वात् तदुपादाने च न तथापत्तिः । तस्य धात्वर्थत्वाभावात् । अत्र परसमवेतत्वं कर्मप्रत्ययार्थः । तस्य च क ख्यातस्थले आख्यातार्थव्यापारे कर्माख्यातस्थले च निष्कृष्टमते तृतीयार्थव्यापार एवान्वय इति । परत्वं तु धात्वर्थे आधेयतासंबन्धेन यदन्वेति तदपेक्षया धात्वर्थेऽधिकरणतासंबन्धेन यत्रान्वेति तदपेक्षया च बोध्यम् । इत्थं च ग्रामं गच्छतीत्यादौ ग्रामवृत्तिसंयोगजनकग्रामभिन्नसमवेतव्यापारवांश्चैत्रः । चैत्रेण ग्रामो गम्यते इत्यत्र चैत्रवृत्तिग्रामभिन्नसमवेतव्यापारजन्यसंयोगशाली ग्राम इति बोधः । ननु कर्ताख्यातकर्माख्यातयोर्व्यापारत्वरूपैकधर्मावच्छिन्नबोधकत्वे कथमेकत्र कर्तृप्रत्ययव्यवहारोऽत आह-फलव्यापारयोरिति । तथा च फलस्य विशेषणत्वे व्यापारस्य विशेष्यत्वे कर्तृप्रत्यय इति व्यवहारः । एवं फलस्य विशेष्यत्वे व्यापारस्य विशेषणत्वेन च कर्मप्रत्ययव्यवहार इति भावः। ननु कर्माख्यातस्थले धात्वर्थफलस्य साक्षान्नामार्थेऽन्वयबोधाङ्गीकारे नामार्थ. धात्वर्थयोः साक्षाढ़ेदान्वयबोधो नाङ्गीक्रियते इति व्युत्पत्तिभङ्ग इत्यत आइ१ चैत्र इति यावत्-इति पाठः ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy