________________
१३ ग्रन्थः] माख्यातशक्तिवादः।
१६१ वस्तुतस्त्विति । अधिकरणत्वमित्यादिप्रथमान्तद्वयस्य पूर्वोक्त-अर्थ इत्येनावयः । ननु कर्माख्यातवत्कर्मकृतोऽत्याश्रयत्वबोधकत्वे तस्य नामार्थेऽन्वयवोधाप्रसङ्गः, नामार्थयो/देनान्वयस्यानङ्गीकारादित्यत आह-कर्मकृत इति । आश्रय इति । फलस्येत्यादिः । कर्तृकृतो यत्नाश्रयबोधकत्वे एकाकारबोधजनकत्वरक्षार्थमाख्यातस्यापि यत्नत्वविशिष्टशक्तत्वापत्तिरत आह-कर्तृकृत इति । कर्तृकर्मेत्यादि । उपदर्शितोभयस्थले कर्तृकर्मभ्यां सह कृत्प्रत्ययार्थाभेदान्वयबोधस्यानुभवविरोधादित्यर्थः । जानातीत्यादिप्रयोग इति । आख्यातकर्मकर्तृकृतामिति शेषः । पूर्वोक्तैव रीतिरिति । आश्रयत्वविषयकत्वे काख्यातकर्माख्यातयोराश्रयविषयौ च कर्तृकृत्कर्मकृतोरर्थ इत्यर्थः । सुबर्थ एवेत्यादि । पच्यत इत्यत्र व्यापारत्याख्यातार्थत्वाभावात् फले वर्तमानत्वान्वयबोधाङ्गीकारे व्यापारासत्त्वदशायां फलसत्त्वदशायामपि पच्यत इति प्रयोगापत्तिः । एवं पक्क इत्यादावाख्यातस्याभावेन तदर्थव्यापारेऽतीत्वस्य बोध इति वक्तुमशक्यत्वेन धात्वर्थफलेऽतीतत्वस्यान्वयाङ्गीकारे फलसत्त्वदशायां व्यापारनाशदशायां पक्वस्तण्डुल इति प्रयोगानुपपत्तिश्चेति भाव: । वर्तमानत्वादीत्यादिना अतीतत्वादिपरिग्रहः । ननु पचमान इत्यादौ शानच्प्रत्ययार्थैकदेशे व्यापार एव वर्तमानत्वादेरन्वयः स्वीकर्तव्यः । तथाच पदार्थः पदार्थेनान्वेति, न तु पदार्थंकदेशेनेति व्युत्पत्तिभङ्ग इत्यत आह-पचमान इत्यादि । तथाच प्रकृतस्थले तादृशव्युत्पत्तेः सङ्कोचः कल्प्यत इति भावः । __ सर्वत्र तादृशव्युत्पत्तिस्वीकारे त्वाह-स्तां वेति । नन्वेवं सति तत्र व्यापाराश्रयताबोधस्यानुभवसिद्धस्य लोपप्रसङ्ग इत्यत आह-विशिष्टमिति | आश्रयतासंबन्धेन व्यापारविशिष्टाश्रयत्वमित्यर्थः । मन्वयलभ्यमिति । एकपदोपस्थापितयोरर्थयोः परस्परमन्वयबोधाङ्गीकारेणाकाङ्क्षाकार्यकारणभावसिद्धशाब्दबोधविषय इत्यर्थः । तथाचकपदोपस्थाप्ययोः परस्परमन्वयबोधे बाधकाभावेन तादृशविशिष्टार्थबोधो नानुपपन्न इति भावः । नन्वेकपदोपस्थाप्ययोरर्थयोः परस्परमन्वयबोधो व्युत्पत्तिसिद्ध इत्यत्र मानाभाव इत्यत आह-एवकारस्येति। तथाचैकपदोपस्थाप्ययोरर्थयोः परस्परमन्वयबोधानङ्गीकारे पार्थ एव धनुर्धर इत्यादौ पार्थान्ययोगव्यवच्छेदबोधोऽनुपपन्नः । एवकारस्यापि अन्ययोगे व्यवच्छेदे च प्रत्येकं शक्तिद्वयस्वीकारेणोपदर्शितानुपपत्तिग्रस्तत्वादिति भावः । नन्वेवकारस्योभयशक्तिर्न स्वीक्रियते किन्त्वन्ययोगप्रतियोगिकत्वविशिष्टव्यवच्छेद एव । तथाचोपदर्शितान्वयबोधो नानुपपन्न इत्यत आह-अन्ययोगेत्यादि ।