________________
१६२ वादार्थसंग्रहः
[४ भागः अन्ययोगप्रतियोगिकत्वविशिष्टव्यवच्छेदमात्रस्येत्यर्थः। अतिप्रसक्तत्वादिति । सर्वसाधारणत्वादित्यर्थः । तथा च पार्थ एव धनुर्धर इत्यादिवत् , चैत्र एव धनुर्धर इत्यादिप्रयोगापत्ति: । चैत्रान्ययोगघटोभयव्यवच्छेदस्य चैत्रान्ययोगप्रतियोगिकस्य धनुर्धरे विद्यमानत्वादिति भावः । नन्वन्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेद एव एवकारशक्यः । तथा च न चैत्र एव धनुर्धर इत्यादिप्रयोगः । पार्थरूपधनुर्धरे चैत्रान्ययोगस्य विद्यमानतया धनुर्धरत्वावच्छेदेन चैत्रान्ययोगत्वावच्छिन्नाभावासत्त्वादतस्तत्र दोषमाह-अन्ययोगत्वावच्छिन्नेत्यादि । अन्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य शक्यत्वे अन्यतादात्म्यत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य शक्यत्वे शक्याप्रसिद्धिः। पार्थ एव धनुर्धर इत्यादौ अन्यतादात्म्यत्वावच्छिन्नप्रतियोगिताकाभावरूपशक्याप्रसिद्धिः। पृथिव्यामेव गन्ध इत्यादौ अन्यसमवेतत्वावच्छिन्नाभावरूपशक्या. प्रसिद्धिदोषो न संभवति । असमवेते तस्य प्रसिद्धिसंभवात् । अतस्तत्र दोषमाह-बाधितत्वं चेति । पृथिव्यामेव गन्ध इत्यादौ गन्धे अन्यसमवेतत्वाभावस्य बाधितत्वं चेत्यर्थः । ननु तत्र गंधे अन्यसमवेतत्वव्यवच्छेदस्य बाधितत्वेऽपि पृथिव्यन्नसमवेतत्वाभावस्य तत्राबाधसत्वेन बोधसंभवात् । एवं पार्थ एव धनुर्धर इत्यादौ भन्यतादात्म्याभावाप्रसिद्धावपि पार्थान्यतादात्म्याभावस्य प्रसिद्धिसंभवेन बोधसंभवादतो दूषणान्तरमाहपार्थ एवेत्यादाविति । तस्य पार्थान्यतादात्म्यत्वावच्छिन्न प्रतियोगिताकव्येवच्छेदस्य ततोऽन्यत्वात् । एवकारशक्यतावच्छेदकावच्छिन्नान्यत्वात् । शक्यतावच्छेदकावच्छिन्नस्यैव पदादुपस्थितिसंभवेन एवकारात्पार्थान्यतादात्म्यव्यवच्छेदस्य प्रत्ययासंभव इति भावः । ननु स्वान्यतादात्म्यत्वावच्छिन्नप्रतियोगिताकाभावादी एवकारस्य शक्तिः कल्पनीया । अत्र स्वपदं यत्पदसमभिव्याहृतविभक्तिसमभिव्याहृत एवकारः श्रुतस्तत्परम् । तथा च नोपदर्शितानुपपत्तिस्तत्रादोषमाह-स्वान्येत्यादि । स्वत्वस्याननुगमात् । पार्थपृथिव्यादिसाधारणानुगतस्वत्वस्याभावात् । पार्थान्ययोगव्यवच्छेदादौ एवकारस्य नानाशक्तिकल्पने शक्त्यानन्त्यम् । तथाचानन्तशक्तिकल्पनभिया उपदर्शितप्रकारो नादरणीय इति भावः । नन्वेवकारस्यान्यस्मिन् योगे व्यवच्छेदे च नानाशक्तिवादिमते कथं पार्थ एव धनुर्धर इत्यादौ पार्थान्यतादात्म्यव्यवच्छेदबोध इत्यत आहतस्मादित्यादि । यथा नीलो घटो नास्तीत्यादौ घटत्वावच्छिन्ने नीलस्यान्वयेन नीलघटत्वावच्छिन्नाभाव: प्रतीयते तथा पार्थ एवेत्यादौ एवकारार्थ अन्यैक