SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६३ १३ ग्रन्थः ] आख्यातशक्तिवादः । देशे भेदे पार्थस्यान्वयेनान्यस्य च योगेऽन्वयो न योगस्य च व्यवच्छेदेऽन्वये पार्थान्यतादात्म्यव्यवच्छेदः प्रतीयते इति समुदितग्रन्थार्थः । ननु कर्तृकृदर्थव्यापाराश्रयैकदेशे व्यापारे वर्तमानत्वाद्यन्वयस्वीकारे मण्डनमते पदार्थः पदाथनोन्वति न तु पदार्थैकदेश इति व्युत्पत्तिसङ्कोच एव दोषः । व्यापाराश्रययस्तस्य नानाशक्यत्वेनानन्तशक्तिकल्पनाप्रसङ्ग इत्यत आह- समानं चेति । तथाचाख्यातस्य कृतित्वेन कृतौ शक्तिवादिनापि कर्तृकृदर्थकृत्याश्रयैकदेशे कृतौ वर्तमानत्वादेरन्वयाभ्युपगमे उपदर्शितव्युत्पत्तिभङ्गः । कर्तृकृतः कृतावाश्रये च शक्तिद्वयस्वीकारेऽनन्तशक्तिकल्पनाप्रसङ्गोऽवश्यमभ्युपेय इति मतयेsपि समानमिति भावः । ननु आख्यातकर्तृकृतोर्व्यापारतदाश्रययोः शक्यत्वे संयुज्यते संयुक्त इत्यादावपि तथैव वक्तव्यतया युजधातोः सकर्मकत्वापत्तिः । प्रत्ययोपनीतधात्वर्थानुकूलव्यापारजन्य फलशालित्वरूपकर्मत्वस्य तत्र वृक्षादौ संभवादित्यत आह- धात्वर्थेत्यादि । तथा च तत्र प्रत्ययस्य व्यापारार्थकत्वे तथाविधव्यापारविरहिणि वृक्षे तादृशप्रत्ययानुपपत्तिरिति भावः । नन्वदृष्टवदात्मसंयोगादिरूपव्यापारस्य तत्र वृक्षादौ सर्वदा सत्त्वेन तत्र तथाविधव्यापारविरह एवाप्रसिद्ध इति संयुज्यत इत्यादौ प्रत्ययस्य व्यापारार्थकत्वेनोक्तानुपपत्तिरतो दूषणान्तरमाह-संयोगमात्रप्रतीतेश्चेति । मात्रपदेन व्यापारव्यवच्छेदः । तथाच तथा सति तत्र व्यापारस्यापि बोधः स्यादिति भावः । न कर्मत्वमिति । व्यापारस्य प्रत्ययोपनीतत्वाभावेन प्रत्ययोपनीततादृशव्यापारजन्यफलशालित्वरूपकर्मत्वस्य तत्र क्वाप्यभावान्न सकर्मत्वमिति भावः । ननु घञो व्यापारार्थत्वे भावे घञत्यनुशासनविरोधः । तादृशानुशासने घञः प्रयोगसाधुत्वमात्रप्रतीतेरत आह-संयोग इत्यादाविति । तथा च तादृशानुशासनं तत्स्थलाभिप्रायकमिति न दोष इति भावः । तत्रेत्यादि । तत्र लक्षणया तादृशानुभवोपपादने तु लाघवाद्यत्नत्वमेवाख्यातशक्यतावच्छेदकं युक्तमिति भावः । मण्डनमते दोषान्तरमाह - फलेति । तथा च ' पाकानुकूला साधारणव्यापाराभाववति अदृष्टादिरूपसाधारणव्यापारवति पुरुषे पचतीत्यादिप्रयोगप्रसङ्गो मण्डनमते दुर्वार इति भावः । नन्वसाधारणजनकताश्रयव्यापारस्याख्यातार्थत्वेनोक्तदोष इत्यत आह-विभागादीति । चलति, इष्टापत्तिः संभवतीत्यतो निश्चलादावित्युक्तम् ॥ १६ ॥ ( जय० ) मण्डनमतं मंडयन्नाह - धातोरर्थ इति । फलं च विक्लि - त्यादि । फलावच्छिन्नव्यापारस्यार्यत्वे नागृहीतविशेषणन्यायेन फलमात्रस्यैव १ खण्डयन्नाहेत्यन्यत्र । चिंत्यमेतत्सुधीभिः ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy