________________
१५९
१३ ग्रन्थः] आख्यातशक्तिवादः । कूलव्यापारस्य धात्वर्थत्वमतेऽपि पचतीत्यादौ विक्तृत्त्यनुकूलव्यापारत्वेनादृष्टादीनां न प्रतीतिरित्यस्मद्गुरुचरणसरोरुहद्वन्द्वम् ॥ १६ ॥
(रघु० ) मण्डनमतं दूषयितुं तन्मतं दर्शयति-धातोरर्थः फलमिति । तथा च फलानुकूलव्यापारे धातोः शक्तिवादिनोऽपि फले शक्तिकल्पनस्यावश्यकतया तत्रैव तत्कल्पनमुचितमिति भावः । नन्वेवं गच्छतीत्यादौ संयोगरूपफलानुकूलव्यापारबोधस्यानुभवसिद्धस्य कथं निर्वाह इत्यत आह-अनुकूलव्यापार इति । पदार्थैकदेशे अन्वयानङ्गीकारे त्वाह - व्यापारमात्रं वेति । ननु केवलव्यापारस्याख्यातार्थत्वे गच्छतीत्यादौ धात्वर्थसंयोगाख्यातार्थव्यापारयोः कथं जन्यजनकभावस्तत्राह-जन्यजनकभाव इत्यादि । नन्वेवं सति सर्वत्र फलस्य धात्वर्थत्वे गच्छति यजेतेत्यादौ संयोगस्वर्गादिरूपफले वर्तमानत्वेष्टसाधनत्वादेरभावात्तदन्वयानुपपत्तिरित्यत आह-लडादीत्यादि. । लडाद्यर्थः वर्तमानत्वादिकं, लिङाद्यर्थ इष्टसाधनत्वादिकमित्यर्थः । वर्तमानत्वादीत्यादिना भविष्यत्वादिपरिग्रहः । इष्टसाधनत्वादीत्यादिना कृतिसाध्यत्वपरिग्रहः । एकपदोपात्तत्वेति । एकपदजन्योपस्थितिविषयत्वेनेत्यर्थः । तत्रैवेति । व्यापार एवेत्यर्थः । तथाचाख्यातार्थव्यापारे वर्तमानत्वादेरन्वयाङ्गीकारे आसत्यर्थ वर्तमानत्वादेरुपस्थित्यन्तराकल्पने लाघवमिति भावः ।
ननु फलस्य धात्वर्थवे ओदनादिरूपपाकफलानुत्पत्तिदशायां तदनुकूलपाकादिरूपव्यापारसत्त्वे पाको भविष्यतीति प्रयोगापत्तिः । तत्र निरर्थकघसमभिव्याहृतपचधात्वर्थे ओदनादिरूपे फले वर्तमानप्रागभावप्रतियोगित्वरूप. भविष्यत्वस्य सत्त्वादत आह--भावप्रत्ययस्य घनादेरिति, भावविहितस्य घत्रादिप्रत्ययस्येत्यर्थः । अनुकूलव्यापार एवेति । तथा च तत्र भावविहितघजर्थतादृशव्यापारस्य सिद्धतया तत्र प्रवर्तमानप्रागभावप्रतियोगित्वरूपभविष्यत्वस्य बाधितत्वेन तथा प्रयोगापत्त्यसम्भवादिति भावः । तेनेति । भावविहितघञ्प्रत्ययस्यानुकूलव्यापारार्थकत्वेनेत्यर्थ: । फलानुवाददशायामिति । ओदनादिरूपफलानुत्पाददशायामित्यर्थः । तादृशफलोत्पाददशायां तु तत्र वर्तमानप्रागभावप्रतियोगित्वरूपभविष्यत्वस्यौदनादिरूप. फलेऽभावेन तथाप्रयोगासंभवात्तथैवोक्तमिति । घोऽनुकूलव्यापारार्थकत्वे युक्त्यन्तरमाह- नवेति । व्यापारविगमे, पाकादिरूपव्यापारविगमे इत्यर्थः । पाको विद्यत इति । अत्र तदा धात्वर्थे ओदनादिरूपफले वर्तमानकालसंबधित्वरूपविद्यमानत्वस्य सत्त्वेन तथा प्रयोगापत्तिसंभवादिति भावः । भाव