Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१६३
१३ ग्रन्थः ]
आख्यातशक्तिवादः ।
देशे भेदे पार्थस्यान्वयेनान्यस्य च योगेऽन्वयो न योगस्य च व्यवच्छेदेऽन्वये पार्थान्यतादात्म्यव्यवच्छेदः प्रतीयते इति समुदितग्रन्थार्थः । ननु कर्तृकृदर्थव्यापाराश्रयैकदेशे व्यापारे वर्तमानत्वाद्यन्वयस्वीकारे मण्डनमते पदार्थः पदाथनोन्वति न तु पदार्थैकदेश इति व्युत्पत्तिसङ्कोच एव दोषः । व्यापाराश्रययस्तस्य नानाशक्यत्वेनानन्तशक्तिकल्पनाप्रसङ्ग इत्यत आह- समानं चेति । तथाचाख्यातस्य कृतित्वेन कृतौ शक्तिवादिनापि कर्तृकृदर्थकृत्याश्रयैकदेशे कृतौ वर्तमानत्वादेरन्वयाभ्युपगमे उपदर्शितव्युत्पत्तिभङ्गः । कर्तृकृतः कृतावाश्रये च शक्तिद्वयस्वीकारेऽनन्तशक्तिकल्पनाप्रसङ्गोऽवश्यमभ्युपेय इति मतयेsपि समानमिति भावः । ननु आख्यातकर्तृकृतोर्व्यापारतदाश्रययोः शक्यत्वे संयुज्यते संयुक्त इत्यादावपि तथैव वक्तव्यतया युजधातोः सकर्मकत्वापत्तिः । प्रत्ययोपनीतधात्वर्थानुकूलव्यापारजन्य फलशालित्वरूपकर्मत्वस्य तत्र वृक्षादौ संभवादित्यत आह- धात्वर्थेत्यादि । तथा च तत्र प्रत्ययस्य व्यापारार्थकत्वे तथाविधव्यापारविरहिणि वृक्षे तादृशप्रत्ययानुपपत्तिरिति भावः । नन्वदृष्टवदात्मसंयोगादिरूपव्यापारस्य तत्र वृक्षादौ सर्वदा सत्त्वेन तत्र तथाविधव्यापारविरह एवाप्रसिद्ध इति संयुज्यत इत्यादौ प्रत्ययस्य व्यापारार्थकत्वेनोक्तानुपपत्तिरतो दूषणान्तरमाह-संयोगमात्रप्रतीतेश्चेति । मात्रपदेन व्यापारव्यवच्छेदः । तथाच तथा सति तत्र व्यापारस्यापि बोधः स्यादिति भावः । न कर्मत्वमिति । व्यापारस्य प्रत्ययोपनीतत्वाभावेन प्रत्ययोपनीततादृशव्यापारजन्यफलशालित्वरूपकर्मत्वस्य तत्र क्वाप्यभावान्न सकर्मत्वमिति भावः । ननु घञो व्यापारार्थत्वे भावे घञत्यनुशासनविरोधः । तादृशानुशासने घञः प्रयोगसाधुत्वमात्रप्रतीतेरत आह-संयोग इत्यादाविति । तथा च तादृशानुशासनं तत्स्थलाभिप्रायकमिति न दोष इति भावः ।
तत्रेत्यादि । तत्र लक्षणया तादृशानुभवोपपादने तु लाघवाद्यत्नत्वमेवाख्यातशक्यतावच्छेदकं युक्तमिति भावः । मण्डनमते दोषान्तरमाह - फलेति । तथा च ' पाकानुकूला साधारणव्यापाराभाववति अदृष्टादिरूपसाधारणव्यापारवति पुरुषे पचतीत्यादिप्रयोगप्रसङ्गो मण्डनमते दुर्वार इति भावः । नन्वसाधारणजनकताश्रयव्यापारस्याख्यातार्थत्वेनोक्तदोष इत्यत आह-विभागादीति । चलति, इष्टापत्तिः संभवतीत्यतो निश्चलादावित्युक्तम् ॥ १६ ॥
( जय० ) मण्डनमतं मंडयन्नाह - धातोरर्थ इति । फलं च विक्लि - त्यादि । फलावच्छिन्नव्यापारस्यार्यत्वे नागृहीतविशेषणन्यायेन फलमात्रस्यैव १ खण्डयन्नाहेत्यन्यत्र । चिंत्यमेतत्सुधीभिः ।
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238