Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ प्रन्थः] आख्यातशक्तिवादः ।
१६९ विशेष: अन्यदीयगमनानुकूलनोदनादृष्टजनककृत्यादिव्यावृत्तः । सर्वत्रैषां वृत्तिर्न भवतीत्यत उक्तं तत्र तत्रेति । गमित्यज्यादिधातुविशेषे इत्यर्थः । धात्वर्थाश्रयत्वं तत्तद्धातुसमभिव्याहृताख्यातप्रतिपाद्यस्तत्तद्धात्वर्थसंबन्धः । तत्र च गमित्यजिधात्वर्थस्य तु संयोगविभागानुकूलस्संदस्याश्रयत्वं कर्तर्यव्याहतमेव । पच्याद्यर्थामिसंयोगाद्याश्रयत्वस्य कर्तर्यभावेऽपि स्वजनककृतिसंबन्धेन तत्संबन्धित्वं चैत्रादावव्याहतं तदेव चाख्यातार्थः। यत्तु विक्लित्त्यनुकूला कृतिरेव पच्यर्थः, कृतेरपि क्रियाद्वारा विक्लित्त्यनुकूलत्वादिति, तन्न, विक्लित्त्यनुकूलकृतिविगमेपि पाको विद्यत इत्यादिप्रयोगात् । पाक इत्यादौ तेजःसंयोगः, पचतीत्यादौ तदनुकूला कृतिः पच्यर्थ इत्यपि केचित् । आख्यातार्थः किमित्यत्राह-संख्येति । आदिपदादतीतत्वादीष्टसाधनत्वादेरात्मनेपदार्थस्य फलस्य ग्रहणम् । धात्वथस्य नामार्थे भेदेनान्वयो नास्तीति स्वोक्तमनुसृत्याह-कचिदिति । आदिपदान्नश्यतीत्यादौ प्रतियोगित्वपरिग्रहः। कर्माख्याते फलार्थके भावाख्याते चाश्रयत्वाद्यर्थत्वाभावात्वचिदित्युक्तम् । तत्र तत्र चैत्रः पचति, सुंदरः पचतीत्यादौ । मण्डनमतदूषणेनैव तन्मतं दूषितमित्यस्मत्कृत-शब्दालोकरहस्ये विस्तरः ।। १७ ॥
अपूरि जयरामेण विबुधानन्ददायिनी ।
आख्यातवादव्याख्यानसुधा कण्ठे निघीयताम् ॥ १ ॥ इति श्रीजयरामन्यायपञ्चाननकृताऽऽख्यातवादटीका समाप्ता।
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238