Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः] आख्यातशक्तिवादः।
१५७ स्पराकाङ्क्षायोग्यतादिगम्यम्। ननु मृगोऽस्तीत्यादौ सामान्यहरिणपराविशेषवाचकान्मृगपदार पशुईरिण इध्याकारकशाब्दबोधवारणाय एकपदोपात्तयोविशेष्यविशेषणभावेनान्वयः प्रसिद्ध इति कथमेकपदोपात्तयोापाराश्रययोर्विशेषणविशेष्यभावेनान्वयो भविष्यतीत्याशङ्कामपाकर्तुमाह-एवकारस्येवेति । पाथ एव धनुर्धरत्वमित्यादौ धनुर्धरत्वे पार्थान्ययोगव्यवच्छेदबोधाय यथाऽन्ययोगे व्यवच्छेदे च खण्डशक्तिरेकपदोपात्तयोश्च विशेषणविशेष्यभावेनान्वयो व्युत्पन्नस्तथा शानजादिस्थलेऽपि वक्तव्यमित्यर्थः । ननु पार्थ एव धनुर्धरत्वमित्यादौ खण्डशक्तिस्वीकारेऽप्येकदेशे अन्यत्वे पार्थादेरन्वयो बाध्यस्तथा च तत्र लाघवादन्ययोगव्यवच्छेदे एकैव शक्तिरिति दृष्टान्तदान्तिकवैषम्यमित्यत आहअन्ययोगप्रतियोगिकव्यवच्छेदस्येति । उभयाभावविशिष्टाभावसाधारणस्यान्ययोगव्यवच्छेदस्येत्यर्थः । अतिप्रसक्तस्वात् पार्थ एव धनुर्धरत्वमित्यादौ पार्थान्ययोगघटोभयत्वावच्छिन्न प्रतियोगिताक-व्यवच्छेदस्यान्ययोगव्यवच्छेदस्य दव्यस्वादावपि सत्त्वाम् । तथा च पार्थ एव द्रव्यत्वमित्यादेरपि प्रसङ्ग इति भावः । शक्याप्रसिद्धिरिति । अन्ययोगस्य केवलान्वयित्वात् तत्त्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्याप्रसिद्धिरित्यर्थः । नन्वन्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदे एवकारस्य शक्तिर्वाच्या । स चासमवेताभावादावेव प्रसिद्ध इति नाप्रसिद्धिरित्यत आह-बाधितत्वमिति । पार्थ एव धनुर्धरत्वमित्यादौ धनुर्धरत्वेऽन्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य बाधितत्वमित्यर्थः । तथा च पार्थ एव धनुर्धरत्वमित्यादिप्रयोगोऽयोग्यः स्यादिति भावः । इदं च गुरुधर्मस्य प्रतियोगितावच्छेदकत्वमते, अन्यथाऽन्यसमवेतत्वाभावस्य लाघवेन समवेतत्वावच्छित्रप्रतियोगिताकत्वेनाप्रसिद्धरपरिहारादिति ध्येयम् । नन्वन्यसमवेतत्ववृत्तिप्रतियोगितावच्छेदकतावच्छेदकताकत्वमेव एवकारशक्यतावच्छे. दकम् । तञ्च पदार्थान्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदेऽपि तिष्ठति । पार्थान्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्याप्यधिक त्विति न्यायेन ताशप्रतियोगिताकव्यवच्छेदत्वात् गौरवेण पर्याप्तेरविवक्षणादित्यत आह-पार्थ एवेत्यादाविति । पार्थपदं सप्तम्यन्तं धनुर्धरस्वमिति विशेष्यत्वम् । अन्यथा पदस्य प्रथमान्तत्वे, तस्य ततोऽन्यत्वादित्यस्यासङ्गत्यापत्तेः । तस्य पार्थान्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य । ततः अन्यसमवेतत्वावच्छिन्न प्रतियोगिताकव्यवच्छेदात् । यद्यप्यधिकन्विति न्यायेन सोऽपि शक्य एव तथाप्यन्यसमवेतत्वत्वत्तिप्रतियोगितावच्छेदकताकव्यवच्छेदत्वस्य शक्यतावच्छेदकत्वे विशिष्टाभावोभयाभावमादायातिप्रसङ्गेनान्यसमवेतत्वत्वपर्याप्त१ प्रतिसिद्ध इति पाठः। १४
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238