SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः] आख्यातशक्तिवादः। १५७ स्पराकाङ्क्षायोग्यतादिगम्यम्। ननु मृगोऽस्तीत्यादौ सामान्यहरिणपराविशेषवाचकान्मृगपदार पशुईरिण इध्याकारकशाब्दबोधवारणाय एकपदोपात्तयोविशेष्यविशेषणभावेनान्वयः प्रसिद्ध इति कथमेकपदोपात्तयोापाराश्रययोर्विशेषणविशेष्यभावेनान्वयो भविष्यतीत्याशङ्कामपाकर्तुमाह-एवकारस्येवेति । पाथ एव धनुर्धरत्वमित्यादौ धनुर्धरत्वे पार्थान्ययोगव्यवच्छेदबोधाय यथाऽन्ययोगे व्यवच्छेदे च खण्डशक्तिरेकपदोपात्तयोश्च विशेषणविशेष्यभावेनान्वयो व्युत्पन्नस्तथा शानजादिस्थलेऽपि वक्तव्यमित्यर्थः । ननु पार्थ एव धनुर्धरत्वमित्यादौ खण्डशक्तिस्वीकारेऽप्येकदेशे अन्यत्वे पार्थादेरन्वयो बाध्यस्तथा च तत्र लाघवादन्ययोगव्यवच्छेदे एकैव शक्तिरिति दृष्टान्तदान्तिकवैषम्यमित्यत आहअन्ययोगप्रतियोगिकव्यवच्छेदस्येति । उभयाभावविशिष्टाभावसाधारणस्यान्ययोगव्यवच्छेदस्येत्यर्थः । अतिप्रसक्तस्वात् पार्थ एव धनुर्धरत्वमित्यादौ पार्थान्ययोगघटोभयत्वावच्छिन्न प्रतियोगिताक-व्यवच्छेदस्यान्ययोगव्यवच्छेदस्य दव्यस्वादावपि सत्त्वाम् । तथा च पार्थ एव द्रव्यत्वमित्यादेरपि प्रसङ्ग इति भावः । शक्याप्रसिद्धिरिति । अन्ययोगस्य केवलान्वयित्वात् तत्त्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्याप्रसिद्धिरित्यर्थः । नन्वन्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदे एवकारस्य शक्तिर्वाच्या । स चासमवेताभावादावेव प्रसिद्ध इति नाप्रसिद्धिरित्यत आह-बाधितत्वमिति । पार्थ एव धनुर्धरत्वमित्यादौ धनुर्धरत्वेऽन्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य बाधितत्वमित्यर्थः । तथा च पार्थ एव धनुर्धरत्वमित्यादिप्रयोगोऽयोग्यः स्यादिति भावः । इदं च गुरुधर्मस्य प्रतियोगितावच्छेदकत्वमते, अन्यथाऽन्यसमवेतत्वाभावस्य लाघवेन समवेतत्वावच्छित्रप्रतियोगिताकत्वेनाप्रसिद्धरपरिहारादिति ध्येयम् । नन्वन्यसमवेतत्ववृत्तिप्रतियोगितावच्छेदकतावच्छेदकताकत्वमेव एवकारशक्यतावच्छे. दकम् । तञ्च पदार्थान्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदेऽपि तिष्ठति । पार्थान्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्याप्यधिक त्विति न्यायेन ताशप्रतियोगिताकव्यवच्छेदत्वात् गौरवेण पर्याप्तेरविवक्षणादित्यत आह-पार्थ एवेत्यादाविति । पार्थपदं सप्तम्यन्तं धनुर्धरस्वमिति विशेष्यत्वम् । अन्यथा पदस्य प्रथमान्तत्वे, तस्य ततोऽन्यत्वादित्यस्यासङ्गत्यापत्तेः । तस्य पार्थान्यसमवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य । ततः अन्यसमवेतत्वावच्छिन्न प्रतियोगिताकव्यवच्छेदात् । यद्यप्यधिकन्विति न्यायेन सोऽपि शक्य एव तथाप्यन्यसमवेतत्वत्वत्तिप्रतियोगितावच्छेदकताकव्यवच्छेदत्वस्य शक्यतावच्छेदकत्वे विशिष्टाभावोभयाभावमादायातिप्रसङ्गेनान्यसमवेतत्वत्वपर्याप्त१ प्रतिसिद्ध इति पाठः। १४
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy