SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५६ वादार्थसंग्रहः [४ भाग त्यर्थः। गच्छतीत्यादौ चादृष्टादिव्यावृत्तानुकूलविशेषसंसर्गत्वात् स्पन्दस्य बोध इति न तत्रादृष्टस्य प्रतिपाद्यतेति भावः । परसमवेतत्वानुपादानेऽपि । एव दोषः स्यादिति तदुपादानम् । वर्तमानत्वादेस्तत्तत्क्रियादिरूपकालोपाधिरूपप्रत्ययोपनीतपरसमवेतव्यापारतया तजन्यधात्वर्थसंयोगादिशालिस्वमादाय स एव दोष इति 'व्यापारेति । व्यापारपदोपादानाच्च व्यापारत्वेन प्रत्ययोप नीतत्वलाभालोक्तदोपः। धात्वर्थपदानुपादाने च पूर्वदेशादौ गम्यादिकर्मत्वा. पत्तिः। प्रत्ययोपनीतपरसमवेतस्पन्दरूपव्यापारजन्यविभागादिशालित्वादिति तदुपादानम् । विभागादेव न गम्यायर्थत्वमिति नातिप्रसङ्गः। एवं चेति द्वितीयादेराधेयत्वार्थत्वे चेत्यर्थः। फलविशेषेति । विक्तृत्तीत्यर्थः। नन्वेवं कर्तृकर्मप्रत्ययस्थले तुल्यवत्पदार्थबोधायुपगमे वैपरीत्येन कर्तृकर्मव्यवहारापत्तिरित्यत आह-फलेति। तथा च धास्वर्थविशेषणकप्रत्ययार्थव्यापारविशेष्यकबोषजनकप्रत्ययश्च कर्तृप्रत्ययः, धात्वर्थविशेष्यकप्रत्ययार्थव्यापारविशेषणकबोधजनकप्रत्ययश्च कर्मप्रत्यय इति न वैपरित्यमिति भावः। - आख्यातार्थव्यापारस्य धात्वर्थविशेष्यतयाऽन्वयस्य पचतीत्यादिस्थले ब्युस्पनत्वेन पच्यत इत्यादौ व्यापारविशेषणकधात्वर्थविशेष्यकान्वयबोधो न संभ. वति, उक्तव्युत्पत्तिविरोधादित्यत आह-वस्तुतस्विति । तथा च कर्मप्रत्यय. स्थले आख्यातार्थव्यापारो न भासते किन्तु तृतीयार्थव्यापार एवेति नोक्तव्युत्पत्तिभङ इति भावः। ननु कर्मप्रत्ययस्थले फलस्य धात्वर्थस्य कथं नामार्थे तण्डुलादो भेदेन साक्षादन्वयो व्युत्पत्तिविरोधादित्यत आह-सामानाधिकरण्येति । तृचस्थले नामाप्रत्ययार्थयोरभेदान्वयबोधस्यानुभवसिद्धस्यानुरोधा. दित्यर्थः । नन्वेतन्मते. यदि प्रत्ययार्थवर्तमानातीतत्वादिकं जानातीत्यादिवद्वात्वर्थफलेऽन्वितं तदा तस्य फलस्य भावित्वदशायां व्यापारस्य वर्तमानत्वेऽपि पच्यत इत्यादिप्रयोगो न स्यात् । एवं व्यापारस्यातीतत्वे फलस्य विधमानतादशायां पक्वस्तण्डुल इत्यादिप्रयोगानुपपत्तिरित्यत आइ-चैत्रेणेति । सुबर्थ एवेति । वस्तुतस्त्वितिमतानुसारेण पूर्वमते चाख्यातार्थव्यापार एवान्वयो बोध्यः । ननु पचमान इत्यादौ व्यापाराश्रयस्य कृदर्थत्वेन व्यापारस्य तदेकदेशतया कथं तत्र वर्तमानत्वान्वय इत्यत आह-पचमान इत्यादि । अनायत्या, अन्यथानुपपत्त्या । तदन्वयः शानजाद्यर्थे वर्तमानत्वान्वयः ।। ईदृशमेकदेशान्वयमनभ्युपगम्याह-स्तां वेति । शक्यौ शानजादिशक्यौ । विशिष्ट व्यापाराश्रयस्वरूपम् । अन्वयबललभ्यं व्यापाराश्रययोः पदार्थयोः पर
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy