SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः] आख्यातशक्तिवादः। १५५ धातुतः फलानुकूलस्पन्दत्वादिप्रकारकबोधस्य स्वारसिकत्वेन प्रामाणिकानुभव. सिद्धस्यापलापप्रसङ्ग इत्येव तन्मते दोषो बोध्यः ॥ १६ ॥ (राम०) मण्डनमतं दूषयितुमुत्थापयति-धातोरर्थ इति । फलावच्छिन्नव्यापारबोधकत्वेन सिद्धान्तसिद्धस्य गम्यादिधातोः फलमर्थ इत्यर्थः। लाघ. वादाह-व्यापारमात्रमिति । आख्यातस्यार्थ इत्यन्वयः। मात्रपदेनानुकूलत्वव्यवच्छेदः। नन्वेवं पचतीत्यादौ व्यापारे कथं धात्वर्थफलानुकूलत्वस्य लाभ इत्यत आह-आख्यातस्येति। जन्येति । धात्वर्थफलाख्यातार्थव्यापारयोजन्यजनकभाव इत्यर्थः। लडादीति । चैत्रः पचतीत्यादौ लडों वर्तमानत्वं चैत्रः पचेतेत्यादौ लिङर्थ इष्टसाधनत्वमन्वेतीत्यत्रान्वितम् । एकपदेति । एकेनाख्यातपदेन व्यापारवर्तमानत्वाघोबर्बोधनादिति भावः । तत्रैव आख्या. तार्थव्यापार एव। . भाषप्रत्ययस्येति । पाक इत्यादिस्थले भावविहितस्य घनादेरित्यर्थः । व्यापारोऽर्थः, अनुकूलत्वं संसर्ग इति भावः। नन्वतन्मतेऽपि घो व्यापार. बोधकत्वे मानाभाव इत्यत आह-तेनेति । व्यापारस्य घमर्थत्वाभावे पाको भविष्यतीत्यादौ धात्वर्थफल एव भविष्यत्वादेरन्वयो वक्तव्यः, तथा च विक्लितिरूपफलानुकूलव्यापारस्य वर्तमानत्वेऽपि विलयनुपाददशायां पाको भविष्यतीति प्रयोगो वस्तुगत्या न भवति स स्यादित्यर्थः । व्यापारस्य घमर्थः स्वाभावे दूपणान्तरमाह-न वेति । व्यापारविगमे व्यापारीभूतस्थाल्याग्नि. संयोगादिनाशे । फलसत्त्वे विक्लृत्तिरूपफलसत्त्वे। इतीत्यस्य नवेत्यनेनान्वयः । अनयोर्दोषयोरिष्टापत्तावपि न प्रतीकार इत्यभिप्रेत्याह-नापीति । गमनमित्यत्र भावघुटो व्यापारार्थकत्वाभावे गमनमित्यस्य संयोग इत्येवार्थः । तथा च घटभूतलयोमिथो गमनमित्यस्य योग्यत्वापत्तिः । व्यापारस्य घुडर्थवे च स्पन्दरूप एव संयोगानुकूलव्यापारो गमनमित्यस्यार्थो भविष्यति स च नोभयत्तिरिति नोकप्रसङ्ग इति भावः ।। ननु फलमात्रस्य धात्वर्थत्वे धात्वर्थतावच्छेदकफलशालित्वं कर्मलक्षणं न संभवति असंभवात् । अन्यत्र कर्मत्वं दुर्वचमिति कथमेतदिस्यत आहप्रत्ययेति । प्रत्ययोपनीतो यः परसमवेतव्यापारस्तजन्यं यत्फलं तच्छालित्वमेव कर्मत्वमित्यर्थः। परत्वं स्वभिन्नत्वम् । स्वपदं च यत्र ग्रामादौ कर्मत्वं ग्रात्यं तत्परम् । इत्थं च प्रत्ययोपनीतपरत्वानुपादे गमिधात्वर्थकमस्वस्य स्वस्मिन् स्यात् । स्वभिन्नसमवेतादृष्टात्मकव्यापारजन्यधात्वर्थशालिस्वस्य स्वस्मिन्नपि सत्त्वादिति 'प्रत्ययोपनीतेति । तदातूत्तरप्रत्ययप्रतिपाये
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy