SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५४ वादार्थसंग्रहः [४ भागः व्यापारवाचितेति न सकर्मकत्वम् । संयोग इत्यादी धात्वर्थमात्रप्रतीतेघेनादेः प्रयोगसाधुतामात्रत्वमिति मण्डनमतानुयायिनः । तन्नं, पचतीत्यादौ पाकानुकूलवर्तमानयत्नांननुभवप्रसङ्गात् । फलानुकूलादृष्टवत्यपि पचतीत्थादेविमागाद्यनुकूलपूर्वसंयोगादिमति निश्चलादावपि विहगे त्यजतीत्यादेः प्रयोगस्य प्रसङ्गाच ॥ १६ ॥ संयोग इत्यादौ घनादिना व्यापाराभिधानात् सकर्मकत्वं तस्य दुर्वारमेवात आह-संयोगेति । प्रयोगसाधुतामात्रमिति, धातुना संयोगबोधने आकाङ्क्षासंपादकमात्रमित्यर्थः। यत्लानभवेति-पत्नत्वविशिष्टाननुभवेत्यर्थः । यत्नत्वं प्रवृत्तित्वम् । . व्यापारत्वस्यैतन्मते आख्यातशक्यतावच्छेदकत्वादिति भावः । नन्वाख्यातस्य यत्नलक्षणयैव तथानुभवो भविष्यतीत्यत आह-फलेति । पचतीत्यादेरिति । प्रयोगस्य प्रसङ्गादित्ययेतनेनान्वयः । नन्वसाधारणातुकूलत्वस्य संसर्गत्वान्नायं दोष इत्यत आह-विभागेति । न च तबाख्यातस्याश्रयत्वमेवार्थ इति वाच्यम् , विभागरूपफलस्यैव तन्मते धात्वर्थतया तदाश्रयत्वस्यापि तत्र सत्वात्। फलावच्छिन्नव्यापारस्य धात्वर्थत्वे तु विभागानुकूलस्पन्दस्यैव त्यजधात्वर्थतया तदाश्रयत्वस्याख्यातार्थस्य तत्राभावान्न तत्प्रसङ्गः । न चाख्यातस्य स्पन्दत्वादिरूपेणैव व्यापारे शक्तिरिति वाच्यम् , धातो नाथत्वस्यावश्यकतया आख्यातस्य तत्कल्पनायां गौरवादिति भावः । एतदप्यापाततः, क्रियायां यादृशविभागायनुकूलत्वं तस्यैव तन्मते धात्वर्थस्याख्यातार्थव्यापारे संसर्गत्वात् । न च तथापि चैत्रः पचतीत्यादौ आख्यातार्थयत्नत्वप्रकारकबोधस्य स्वारसिकत्वेन प्रामाणिकानुभवसिद्धस्यापलापप्रसङ्ग इति वाच्यम् , भवन्मतेऽपि प्रवृत्तित्वस्य आख्यातशक्यतावच्छेदकत्वात् । अचेतने अग्निः पचतीत्यादौ च व्यापारे लक्षणा | स च व्यापारः संयोगादिरेव । न चैवं पचेतेत्यादौ विध्यर्थकृतिसाध्यत्वस्यानन्वयापत्तिः । कृतेः कृतिताध्यत्वाभावात् । विध्यर्थकृतिसाध्यत्वेष्टसाधनत्वयोरेकत्रान्वयित्व नियमेन धात्वर्थफले तदन्वयस्थासंभवादिति वाच्यम्, तत्र धातोः फलानुकूलव्यापारे लाक्षणिकतया धात्वर्थ एव विध्यर्थकृतिसाध्यत्वेष्टसाधनत्वादीनामन्वयसंभवात् । वस्तुतस्तु पचतीत्यादौ १ तत्र च इति पाठः। २ यत्नानुभ० इति पाटः ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy