________________
१३ ग्रन्थः ] आख्यातशक्तिवादः। त्यादौ नीलघटत्वाद्यवच्छिन्नस्येव पार्थ एवेत्यादावपि पार्थान्ययोगत्वावच्छिन्नस्याभावप्रतीतिः । समानं चेदं कृतौ कालान्वयवादिनाम् । धात्वर्थानुकूलव्यापारविरहिण्यपि महीरुहादौ संयुज्यत इत्यादिव्यवहारात् संयोगवत्त्वमात्रप्रतीतेः, नतु तत्र प्रत्ययस्य मविशिष्टबोधकपदसमभिव्याहारेणैवकारप्रयोगः, तद्धर्मावच्छिन्नान्ययोगत्वरूपान्वयितावच्छेदकावच्छिन्नप्रतियोगिताव्यक्तेरेव शक्तौ संसर्गतया भानेन तादृशव्यवहारासंभवादिति ध्येयम् । नन्वन्ययोग-व्यवच्छेदयोः खण्डशः शक्यत्वेऽपि पार्थान्ययोगत्वावच्छिन्नव्यवच्छेदस्याप्रत्ययप्रसङ्गस्तदवस्थ इत्यत आहनीलो घट इति । अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताया एव संसर्गत्वस्य व्युत्पत्तिसिद्धत्वादिति भावः । ननु सुबर्थे पदार्थतावच्छेदके व्यापारे -चा. ख्यातार्थवर्तमानखान्वयबोधे व्युत्पत्यन्तरकल्पना । एवं व्यापाराश्रययोः पृथक् शक्यत्वे शक्तिद्वयकल्पना च मण्डनमते दोष इत्यत आह-समानमिति । 'इदम् एतादृशकल्पनम् । कालान्वयेति । वर्तमानत्वाइन्वयेत्यर्थः । तन्मतेऽपि चैत्रेण पच्यत इत्यादौ तृतीयाथै कृतिवर्तमानवान्वयात् पचमान इत्यादौ कृदर्थस्य कर्तुरेकदेशे वर्तमानत्वान्वयात् किंवा कृतितदाश्रययोः पृथगेव कृत्प्रत्ययस्य शक्यत्वादिति भावः ।
केचित्तु नन्वेकपदार्थयोः परस्परमन्वयबोधस्याव्युत्पन्नत्वादनायत्या तक शक्यानन्त्यमास्थीयत इत्यत आह-समानं चेति । 'इदं एकपदार्थयोः परस्परमन्वयित्वम् । पचतीत्यांदावेकपदार्थयोरपि कृतिवर्तमानत्वायोरन्वयस्य तेनाभ्युपगमात् स्थलविशेषे तयोरन्वयस्याव्युत्पन्नत्वादिति भावः । इति व्याचक्रुः।
ननु फलमात्रस्य धात्वर्थत्वे फलावच्छिन्न व्यापारवाचित्वं न मुख्यसकर्मकरवं किंतु फळवाचकत्वमेव । तथाच संयुजिप्रकृतेरपि मुख्यसकर्मकस्वापत्तिरित्यत
आह-धात्वर्थेति । महीरुहादाविति । श्येनमात्रकर्मजन्यश्येनसंयोगवति महीरुहादावित्यर्थः । ननु महीरुहः संयुज्यत इत्यत्र बाधेन व्यापारानभिधाने तु श्येनः संयुज्यत इत्यत्र व्यापाराभिधानमस्तु वाधकविरहादित्यत आहसंयोगवत्वमात्रेति । संयोगाश्रयत्वमात्रेत्यर्थः । न तत्र प्रत्ययस्य व्यापारवाचितेति किंतु यथायथमाश्रयत्वमेव प्रत्ययार्थ इति भावः । न सकर्मकत्वमिति । तथाच यद्धातूत्तरप्रत्ययेन व्यापारो बोध्यते तदातुरेव मुख्यप्तकमकः। अनुगतसकर्मकत्वानिरुक्तावपि क्षतिविरहादिति भावः । ननु तथापि