SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १५२ वादार्थसंग्रहः [४ भागः योगत्वावच्छिन्नव्यवच्छेदस्याप्रतीतिप्रसङ्गः। तस्य ततोज्यत्वात् स्वान्ययोगव्यवच्छेदेन शक्यत्वे च स्वत्वस्याननुगमाच्छक्यानन्त्यं, नीलो घटो नास्तीत्वम् । तस्य अन्यसमवेतत्वावच्छिन्नव्यवच्छेदस्य । ततः पार्थान्यसमवेतत्वावच्छिन्नव्यवच्छेदतः सामान्याभावस्य विशेषाभावतो भिन्नत्वात् अन्यनिष्ठशक्त्या च नान्यप्रतिपत्तिरिति भावः ।। यत्तु बाधितत्वं चेति छेदः, पृथिव्यामेव गन्ध इत्यादौ समवेतस्वरूपान्ययोगस्थले बाधितत्वं चेत्यर्थः । पृथिव्या अपि किंचिदपेक्षया अन्यत्वादिति भावः । पार्थ एवेत्यादाविति । परान्वयिपार्थ एवेत्यादौ पार्थान्यतादास्म्यत्वावच्छिन्नव्यवच्छेदस्याप्रत्ययप्रसङ्गाचेत्यर्थः इति व्याचक्षते, तदसत् । अन्यतादात्म्यावच्छिन्नप्रतियोगिताकाभावस्याप्रसिद्धतया ततोऽन्यत्वादित्यग्रिमेग्रन्थासङ्गतेः। केचित्तु 'पार्थ एवेत्यादाविति शक्याप्रसिद्धिरित्यत्राप्यन्वितम् । 'बाधितत्वं चेति चकारो वार्थे । तथाच पार्थ एव धनुर्धर इत्यादौ शक्याप्रसिद्धिर्बाधितत्वं वा इति योजना । अन्ययोगस्यान्यतादात्म्यरूपतया तस्य केवलान्वयित्वेन तत्सामान्यव्यवच्छेदरूपस्याप्रसिद्धिरित्यर्थः । ननु धनुर्धरस्वं ज्ञान विशेषरूपं येन समवायादिसंबन्धेन तादात्म्यं तेन संबन्धेनान्यतादात्म्यत्वावच्छिन्नाभावो नाप्रसिद्धः । असमवाय्यादावेव प्रसिद्धत्वादत उक्तं 'बाधितत्वं चेति । धनुर्धरे बाधितत्वं चेत्यर्थः । पार्थस्यापि किंचिदपेक्षया अन्यत्वादिति भावः । दूषणान्तरमाह-पार्थ इति । धदुर्धरत्वं येन संबन्धेन तादात्म्यं तेन संवन्धेन पार्थान्यतादात्म्यत्वावच्छिन्नव्यवच्छेदस्येत्यर्थः । तस्य तत्संबन्धेनान्यतादात्म्यस्वावच्छिन्नाभावस्यासमवाय्यादौ प्रसिद्धस्य, ततः तत्संबन्धेन पार्थान्यतादास्म्यत्वावच्छिन्नाभावात् । अन्यत्वादिति सामान्याभावस्य विशेषाभावतो भिन्नत्वात् , अन्यशक्ष्या च नान्यप्रत्ययसंभव इत्याहुः । अननुगमादिति-पार्थत्वादिरूपत्वादित्यर्थः । शक्यानन्त्यं शक्यतावच्छेदकानन्त्यम् । एतचापाततः प्रतियोगितासामान्यसंबन्धेनान्ययोगवतो व्यवच्छेदस्य विशिष्टस्यैव तच्छक्यत्वस्य सुवचत्वात् । न चैवं पार्थ एव धनुर्धर इतिवत्पार्थ एव द्रव्यमित्यपि व्यवहारः स्यादिति वाच्यम् । नीलो घटो नास्तीत्यादाविव अन्वयितावच्छेदकावच्छिन्न प्रतियोगिताया एवं संसर्गवस्य व्युत्पत्तिसिद्धतया प्रतियोगितासामान्यस्य शक्यतावच्छेदकान्तर्गतत्वेऽपि यद्ध
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy