SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५१ १३ ग्रन्थः ] व्याख्यातशक्तिवादः । स्तां वा व्यापाराश्रयौ शक्यौ विशिष्टमन्वयबललभ्यम्, एवकारस्येवान्ययोगव्यवच्छेदादौ, अन्ययोगप्रतियोगिकव्यवच्छेदस्यातिप्रसक्तत्वात् अन्ययोगत्वावच्छिन्नप्रतियोगिकव्यवच्छेदस्य शक्यत्वे शक्याप्रसिद्धिः, बाधितत्वं च पार्थ एवेत्यादौ, पार्थान्यमाणे तण्डुले अयं तण्डुलः पच्यते अयं तण्डुलः पक्व इति न्यवहारापत्तिः । न चैवं पूर्वकल्पेऽपि चैत्रेण पच्यमानस्तण्डुल इत्यादौ वर्तमानत्वायन्वये का गतिरिति वाच्यम् । वक्ष्यमाणदिशैव तस्योपपादनीयत्वादिति ध्येयम् । पच्यमान इति । एतदपि पूर्वकल्पसाधारणम् । 'पदार्थतावच्छेदके, कृत्प्रत्य. यार्थत्वावच्छेदके, 'तदन्वयः वर्तमानत्वाद्यन्वयः । एकदेशान्वयासहिष्णुतायामाह-स्तां वेति । व्यापारवानाश्रय इति चान्वयबोधः । अन्यथाऽऽश्रयत्वे निरूपितत्व संबन्धेन व्यापारस्यान्वये तत्रैवैकदेशान्वयतादवस्थ्यात् । एवं च पूर्वकल्पे तृतीयार्थे वर्तमानत्वान्वयो व्यापारोss तृतीयार्थोऽनभ्युपेयः, किंतु चैत्रेण पच्यमानस्तण्डुल इत्यादौ कर्मकृतोऽपि व्यापाराश्रयौ पृथगेव शक्यौ । व्यापारस्तृतीयार्थाधेयत्वस्य विशेष्यतया जन्यतासंबन्धेन धात्वर्थे फले विशेषणतया चान्वेति फलं चाश्रये, आश्रयश्चाभेदेन कर्मणीति ध्येयम् । नन्वेकपदजन्योपस्थितिविशेष्ययोः परस्परमनन्वयात् कथमेवमत आह- एवकारस्येवेति । तथाच तत्रैवात्रापि एकपदार्थयोरन्वयो नाव्युत्पन्न इति भावः । ननु तत्रापि अन्ययोगव्यवच्छेदविशिष्ट एवार्थो न तु अन्ययोगव्यवच्छेदौ पृथक् शक्यौ इत्यत आह- अन्ययोगेति । 'अतिप्रसक्तस्वादिति पार्थान्यस्मिन्नपि सत्त्वादित्यर्थः । तथाच पार्थ एव धनुर्धर इतिवत् पार्थ एव द्रव्यवदित्यादेरपि प्रसङ्गः | पार्थान्यगुणादितादात्म्यव्यवच्छेदस्य द्रव्यावच्छेदेन सत्वादिति भावः । शक्या प्रसिद्धिरिति । पार्थ एव धनुर्धर इत्यादौ तादात्म्यरूपान्ययोगस्थले अन्यत्वस्य केवलान्वयित्वेन तत्तादात्म्यस्यापि केवलान्वयितया तत्सामान्यव्यवच्छेदाप्रसिद्धिरित्यर्थः । बाधितस्वं च पार्थ एवेत्यादाविति छेदः । पार्थ एव धनुर्धरत्वमित्यादौ समवेतत्वादिरूपान्ययोगव्यवच्छेदस्थले बाधितत्वं चेत्यर्थः । गुरुधर्मस्याभावप्रतियोगितावच्छेदकस्वनये अन्यसमवेतत्वस्य समवेतत्वापेक्षया गुरुत्वेऽपि तदवच्छिन्नाभावस्यासमवेत प्रसिद्धस्य धनुर्धरत्वादौ बाधितत्वात् पार्थस्यापि किंचिदपेक्षया अन्ययवादिति भावः । दूषणान्तरमाह - पार्थान्ययोगत्वेति । योगत्वं समवेत -
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy