________________
१५०
वादार्थसंग्रहः । ४ भागः वस्तुतस्त्वाख्यातस्येव तृतीयाया अपि व्यापार एवार्थः । कर्माख्यातस्य च धात्वर्थफलनिरूपितमधिकरणत्वं, कर्मकृत आश्रयः, कर्तृकृतश्च व्यापाराश्रयः, कर्मकर्तृसामानाधिकरण्यानुरोधात् । जानातीत्यादिप्रयोगे तु पूर्वोक्तैव रीतिरनुसतव्या ।
चैत्रेण पच्यते पक्क इत्यादौ सुवर्थ एव व्यापारे वर्तमानत्वाद्यन्वयः । पचमानः पक्कवानित्यादौ पुनरनायत्या पदार्थतावच्छेदक एव व्यापार तदन्वयः । घटितधर्मायतिरिक्ताख्यातार्थस्य धात्वर्थविशेष्यत्वमेवेति व्युत्पत्तिभङ्गो नोचित इत्याशयेनाह-वस्तुतस्त्विति । 'आख्यातस्येव कर्तृविहिताख्यातस्येव । तृतीयाया अपीति । कर्मविहिताख्यातस्थले कर्मवाचकपदोत्तरतृतीयाया अपीत्यर्थः । अधिकरणत्वमिति । धात्वर्थनामार्थयोर्भेदेनान्वयचोधासंभवादिति भावः । एतच्च पूर्वकल्पसाधारणं, परंतु तस्कल्पे व्यापारोऽर्थः । अत्राधिकरणत्वमात्रम् । कर्मकृत इति । एतदुभयमपि पूर्वकल्पसाधारणम् । 'व्यापाराश्रयव्यापारवान्। नन्वत्रापि आश्रयत्वे व्यापारे च शक्तिः स्वीक्रियता किं विशिष्टशक्तिस्वीकारेणेत्यत आह-कर्मकर्षिति । कमकर्तृभ्यां कृदयस्याभेदान्वयबोधादित्यर्थः । जानातीत्यादौ फलव्यापारयोरप्रतीतेराह-जानातीत्यादि । पूर्वोक्तैवेति । धातोानादिकं प्रत्ययस्य यथायथमाश्रयत्व-विषयवादिकमर्थ इति भावः । एवं नश्यतीत्यादावपि प्रतियोगित्वादिकमों बोध्यः । ननु चैत्रेण पच्यत इत्यादौ यदि तृतीयाया एव व्यापारोऽर्थः, न तु धात्वाख्यातयोः, तदा व्यापारे वर्तमानवान्वयो न स्यात् । जानातीत्यादौ धात्वर्थ पचतीत्यादौ स्वार्थ एव वर्तमानत्वायनुभावकस्य लडादेव्युत्पन्नत्वात् , धात्वर्थफल एव तदन्वयाभ्युपगमेऽपि फलस्य वर्तमानत्वदशायां तथा प्रयोगापतेरत आह-चैत्रेणेति । तथा च फलबलादेवमपि क्वचिद्वयुत्पत्तिरिति भावः । पूर्वकल्पेऽपि चैत्रेण पक्कस्तण्डुल इत्यत्र इदं स्वीकार्यम्, तत्र तृतीयाया एवं व्यापारोऽर्थः कृतवाश्रयमात्रम् । अन्यथा कृतो व्यापाराश्रयाकल्वे कर्मणा सहान्वयप्रसङ्गादिति बोधनाय पक्व इत्युक्तम् । एतच्चापाततस्तृतीयान्तपदसमभिष्याहृते पच्यते तण्डुलः, तण्डुलः पक्व इत्यादी वर्तमानत्वादेरनन्वयप्रसङ्गात् । न च वर्तमानत्वादिकमनन्वितमेवेति वाच्यम् । तथा सति वक्ष्य