SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४९ १३ ग्रन्थः] आख्यातशक्तिवादः। पचति चैत्र इत्यस्य तण्डुलवृत्तिफलविशेषजनकव्यापारवांश्चैत्रः, मैत्रेण पच्यते तण्डुल इत्यस्य मैत्रनिष्ठव्यापारजन्यफलविशेषशाली तण्डुल इत्यर्थः । फलव्यापारयोर्विशेषण-विशेष्यभावभेदादेव कर्तृकर्मप्रत्ययव्यवहारः । उपनीतान्त व्यापारविशेषणम् । चैत्रो ग्रामं गच्छतीत्यत्र च ग्रामो न तिङप्रत्ययोपनीतः किंतु चैत्रक्रियैव तदुपनीता । चैत्रो ग्रामस्थ गन्तेत्यत्र कृत्प्रत्ययोपनीतः चैत्रान्यचैत्रावयवसमवेतः चैत्र एव तजन्यप्रकृतगम्यर्थसंयोगाश्रये चैत्रेऽतिव्याप्तिरतो व्यापारेति । तथाच व्यापारत्वेन प्रत्ययोपनीतेत्यर्थः । चत्रो ग्रामं गच्छतीत्यत्र तादृशव्यापारजन्यसाक्षात्कारशाल्यात्मनि ताशव्यापारजन्य विभागाश्रयपूर्वदेशेऽतिष्याप्तिवारणाय तहात्वर्थेति फलविशेषणम् । फलपदं च स्वरूपकथन मिति भावः । फलस्य धातुलभ्यत्वादाधेयस्वम् ।.द्वितीयावर्थमाह-फलेति । आदिपदाभ्यां कृयोगे कर्तकर्मषष्ठयोः परिग्रहः। फलविशेषेति, विक्लित्तीत्यर्थः । व्यापारः क्रिया । तद्वत्ता च चैत्रस्य स्वजनककृत्याश्रयत्वसम्बन्धेन, न तु व्यापारः प्रकृते कृतिरेव । चैत्रः पचेतेश्यादौ विध्यर्थस्य कृतिसाध्यत्वस्य तत्रानन्वयापत्तेः । मैत्रनिष्ठेति । निष्टता च स्वनिष्ठकृतिजन्यतासंबन्धेन । फलविशेषशालीति । शालित्वमपि कर्माख्यातस्यार्थः । नामार्थधात्वर्थयोर्भेदेनान्वयानभ्युपगमात् । एतन्मतेऽपि कर्मप्रत्ययस्य परसमवेतत्वमर्थः । तच्च व्यापारेऽन्वेति । परत्वं तु कर्मविहितसुपा स्वार्थाधेयत्वान्वितव्यक्त्यपेक्षया, कर्मविहिततिका च स्वार्थाश्रयत्वविशेष्यीभूतव्यक्त्यपेक्षया प्रत्याय्यते । अतएव चैत्रो ग्रामं गच्छतीत्यत्र चैत्रश्चैत्रं गच्छति चैत्रश्चैत्रेण गम्यते इत्यादयो न प्रत्ययाः । इत्थं च ग्राम गच्छति चैत्र इत्यत्र ग्रामवृत्तिसंयोगजनकग्रामभिन्नसमवेतव्यापारवांश्चैत्र इत्यन्वयबोधः । चैत्रेण ग्रामो गम्यत इत्यत्र चैत्रवृत्तिग्रामभिन्नसमवेतव्यापारजन्यसंयोगाश्रयत्ववान् ग्राम इति बोधः । शेषं पूर्वोक्तदिशाऽवसेयम् । ननूभयत्रैवाख्यातस्य व्यापारबोधकत्वे कर्तृ-कर्मप्रत्ययव्यवहारभेदः कुत इत्यत आहकलव्यापारयोरिति । तथा च फलविशेषणकस्वार्थव्यापारविशेष्यकचोधजनकप्रत्ययत्वं कर्तृप्रत्ययत्वं, स्वार्थव्यापारविशेषणकफलविशेष्यकबोधजनकत्वं च कर्मप्रत्ययस्वमिति भावः । ननु चैत्रेण पक्कस्तण्डुल इत्यत्र तृतीयाया व्यापारार्थकत्वमावश्यकमन्यथा कृत एव व्यापाराश्रयार्थकत्वे कर्मणा सममनन्वयप्रसङ्गात् । तथाच सङ्ख्याकाल
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy