________________
१४८
वादार्थसंग्रहः। [४ भागः भावप्रत्ययस्य घनादेरनुकूलव्यापार एवार्थः । तेन व्यापारसत्त्वे फलानुत्पादशायां पाको भविष्यतीति न प्रयोगः। न वा व्यापारविगमे फलसत्त्वे पाको विद्यते इति । नापि घट-भूतलयोमिथः संयोग इति-वत् मिथो गमनमित्यादि।
प्रत्ययोपनीतपरसमवेतव्यापारजन्यधात्वर्थफलशालित्वं च कर्मत्वं, फलनिष्ठाधेयत्वं द्वितीयादीनां, व्यापारनिष्ठं च तृतीयादिनाऽभिधीयते। एवं च तण्डुलं चैत्र इत्यादौ आख्यातार्थव्यापारस्य क्रियादिरूपस्य स्वजनककृत्याश्रयत्वसंव. न्धेनैव चैत्रादावन्वय इति भावः । वर्तमानत्वादीत्यादि पदादतीतस्वभविष्यस्वयोरुपग्रहः । इष्टसाधनत्वादिकमित्यादिपदात् कृतिसाध्यत्व-बलवदनिष्टानववन्धित्वांशपरिग्रहः । तत्रैवेति आख्यातार्थव्यापार एवेत्यर्थः । जानाति जानीयादित्यादाविव धात्वर्थ एव तदन्वये फलानुस्पाददशायां व्यापारसत्त्वेऽपि पचतीति प्रयोगो न स्यात्, स्याच पक्ष्यतीत्यादिप्रयोगः । न स्याच काशी गच्छेदित्यादौ काशीसंयोगजनकक्रियाया इष्टसाधनत्वादिलाभ इति भावः ।
भावविहितघादेनिरर्थकत्वेन वक्ष्यमाणदूषणापत्तिरत आह-भावेति । भविष्यत्वस्य धार्थव्यापार एवान्वयात् तस्य च तदानीं बाधान तत्प्रयोग इति भावः । विद्यत इतीति, न प्रयोग इत्यनुषज्यते । मिथ इति । गमधास्वर्थस्य संयोगात्मकफलस्य द्विष्ठत्वेऽपि लुडर्थस्य तदनुकूलव्यापारस्य स्पन्दरूपस्याद्विष्ठत्वादिति भावः । इत्यादीत्यादिपदात् महीरुहविहगयोमिथस्त्याग इत्यादेः परिग्रहः।
ननु धात्वर्यत्वे धात्वर्थतावच्छेदकीभूतफलशालित्वं कथं कर्मत्वमित्यत आह-प्रत्ययेति । तत्तहातुसमभिव्याहृतप्रत्ययोपनीतपरसमवेतव्यापारजन्यधात्वर्थफलशालित्वं तत्तद्धातुकर्मत्वमित्यर्थः । अत्र तत्तद्धात्वर्थफलशालिवमात्रोक्तौ चैत्रो ग्रामं गच्छतीत्यादौ ग्रामस्येव चैत्रस्यापि कर्मत्वापत्तिः । गम्यर्थस्य फलस्य ग्रामसंयोगस्य चैत्रेऽपि सत्त्वात् । अतो जन्यान्तं फलविशेषणम् । व्यापारजन्यत्वमात्रोक्तावपि तद्गम्यर्थफलस्य ग्रामसंयोगस्य चैत्रसमवेतक्रियाजन्यतया तदोषतादवस्थ्यम् । अतः परसमवेतवं व्यापार विशेषणम् । चैत्रसमवेतक्रिया च न चैत्रान्यसमवेता तद्दम्यर्थफलस्य ग्रामसंयोगस्यापि चैत्रान्यो ग्रामावयवः तत्समवेतव्यापारो ग्राम एव । तजन्यत्वात्तद्दोषतादवस्थ्यमत