________________
१३ ग्रन्थः ] आख्यातशक्तिवादः।
धातोरर्थः फलमनुकूलव्यापारो व्यापारमानं वा, आख्यातस्य जन्यजनकभावः संसर्गमर्यादया लभ्यः। लडादितिङाद्यर्थो वर्तमानत्वादीष्टसाधनत्वादिकमेकपदोत्तरत्वप्रत्यासत्त्या तत्रैवान्वेति ।। वानिति बोधः । अतएव रथो गमनं करोतीति प्रयोगः । चैत्रेण घटः क्रियत इत्यादौ च तृतीयार्थो व्यापारः। धात्वर्थ उत्पत्तिः । आख्यातार्थ आश्रयत्वम् । तथा च चैत्रनिष्ठव्यापारजन्योत्पत्त्याश्रयो घट इति बोधः । इत्थमेव चाकाशं न करोतीत्यादिप्रयोगोऽपि सूपपादः। उत्पत्तावाकाशनिरूपितत्वस्याभावबोधात्। यदि च नान्तरीयककृतिजन्ये तं करोतीति न व्यवहारस्तदा धातोरुत्पत्तिः कृतिरप्यर्थः । द्वितीयार्थश्च निरूपितत्वम् , विषयित्वमपि । तथाच घटं करोतीत्यादौ घटनिरूपितोत्पत्तिप्रयोजिका घटविषयिणी या कृतिस्तदाश्रय इति बोध इत्यप्याहुः । साध्यतया कृतिविषयत्वमेव कृञो योगे कर्मप्रत्ययार्थ इति तु ज्यायः । ज्ञानीयनिरूपितत्वादिविशेषेणैव द्वितीयाद्यर्थविषयित्वादौ कर्माद्यन्वय इत्यपि केचित् ॥ १५ ॥
(मथु०) मण्डनमतमाह-धातोरिति । फलमिति । संयोगस्वादिविशिष्टमित्यर्थः । एवं च यादृशफलावच्छिन्नव्यापारवत्वं यदातो.यायिकरुपे. यते तद्धातोस्तादूप्येण फलमित्यर्थः । तच पचेविक्लित्तिः, त्यजेविभागः, गमेः संयोगः, ददाति क्रीणातीत्यादे विलक्षणस्वत्वादि, त्यजिगमिप्रभृतीनां पर्यायतावारणस्य तावतापि संभवेन व्यापारान्तर्भावेण शक्यतायां गौरवादिति भावः । अनुकूलतान्तर्भावे गौरवांदेकदेशान्वयापत्तेश्वाह-व्यापारमात्रं वेति, आख्यातार्थ इत्यनुपज्यते, व्यापारत्वं धर्मत्वम् । नन्वेवं गौरवं धर्मत्व. स्याखण्डोपाधित्वेऽपि प्रवृत्तित्वस्य जातित्वेन तदपेक्षया गुरुत्वात् । न च व्यापारत्वं प्रवृत्तित्वमेवेति वाच्यम् । पचेतत्यादौ विध्यर्थस्य कृतिसाध्यत्वस्यानन्वयप्रसङ्गादिति चेत्, न, पचतीत्यत्र पचेविक्लित्तिजनकक्रियात्वस्यानन्तपदार्थघटितस्य शक्यतावच्छेदकत्वकल्पनामपेक्ष्य पचेविक्लित्तित्वस्य तिबो धर्मत्वरूपव्यापारत्वस्याखण्डधर्मस्य शक्यतावच्छेदकत्वकल्पनाया एव लघीयस्वात् । न च तिबादीनां लघुतरं प्रवृत्तित्वमपहाय धर्मत्वरूपव्यापारत्व. त्योपाधिरूपस्य शक्यतावच्छेदकत्वकल्पनामपेक्ष्य धातूनां कियतां तत्तत्फलजनकतत्तद्यापारत्वस्य शक्यतावच्छेदकत्वकल्पनमेव साध्विति वाच्यम् । तिवादीनामपेक्ष्य धातूनां स्वल्पत्वाभावादिति भावः । जन्यजनकभाव इति, कलव्यापारयोर्जन्यजनकभावस्तयोः संसर्गमर्यादया लभ्य इत्यर्थः । पचति