Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 137
________________ १३ ग्रन्थः] आख्यातशक्तिवादः । १२३ शेष्यकशक्तिग्रहासंभवेन बुद्धिविषयतावच्छेदकमुपलक्षणीभूय शक्यतावच्छेदकानुगमकमास्थीयते । अत्र बुद्धिर्यत्पदजन्या ग्राह्या, अप्रक्रान्ताद्यर्थकतच्छब्देनापि यच्छब्दाक्षेपात्। अत एव यत्तदोनित्याभिसंबन्ध इति प्राञ्चः । इत्यं च शक्यतावच्छेदकानुगमकबुद्धिविषयतावच्छेदकत्वं यदा यादृशे रूपे गृह्यते तदा तेनैव तत्पदमुपस्थापयत्यनुभावयति च व्युत्पत्तिवैचित्र्यात्तथाख्यातकृतोरपि संयोगत्वविभागत्वादिरूपशक्यतावच्छेदकनानात्वादवच्छेदकभेदादनन्तशक्त्यापत्त्या प्रकृतिबोध्यतावच्छेदक(त्व)मुपलक्षणीभूय शक्यतावच्छेदकतत्त्वावच्छेदकाद्यनुगमकमुच्यते। प्रकृतिबोध्यतावच्छेदकधर्मवति फले तद्वति च शक्तमिदमित्याकारकः शक्तिग्रहः । शक्यतावच्छेदकाद्यनुगमकप्रकृतिबोध्यतावच्छेदकत्वं च धर्मस्य यदा यादृशरूपेण गृह्यते तेन रूपेण कृप्तमुपस्थापयति बोधयति चेति नियमान्नातिप्रसङ्ग इति भावः । तादृशरूपेण शाब्दबोधं प्रति तादृशरूपेण शक्तिग्रहस्य हेतुतायाः कृप्तत्वात्तत्यागे बीजाभावः । अन्यथा तदादिपदे शक्तेरपि विलयापत्तिः । बुद्धिविशेषस्य सहकारित्वेनैवानतिप्रसङ्गात् , बुद्धौ शक्यतावच्छेदकानुगमकविशेषणत्वस्य व्यर्थत्वात्, घटत्वाद्यवच्छिन्ने शक्त्यभावग्रहेऽपि शुद्धघटत्वादिप्रकारेण शाब्दबोधापत्तिश्च । किं च शाब्दबोधाविषयीभूतधर्मेण शक्यतावच्छेदकानुगमे इच्छाविषयत्वतत्तदभावत्त्वमपि तथा स्यात् । सहकारित्वं च शक्यतावच्छेदकनिष्टस्यापि बुद्धिविषयत्वस्याव्याहतमेवेति । किं चैवं नानार्थतोच्छेदः, अक्षादिपदेऽप्यन्यतमत्वविशेषस्य शक्यतावच्छेदकानुगमकस्य संभवादिति प्राचीनमतं दूषयति । अत्रैवं प्राचामाशयं वर्णयाम:-शक्तिनस्तावत्संबन्धग्रहत्वेन शक्योपस्थापकतयोपयुज्यते । बुद्धिविषयतावच्छेदकावच्छिन्नं तत्पदशक्यमिति शक्तिग्रहाहितसंस्कारेण तत्तद्धर्मावच्छिन्नशक्त्यंशे उद्बुद्धेन सहकृतमेव तत्पदं तद्धर्मावच्छिन्नं स्मारयत्यनुभावयति च । उद्बोधकं च परंपरासंबन्धि तत्पदज्ञानस्मारितस्य यत्पदजन्यबुद्धिविषयत्वस्य तत्तद्धर्मावच्छिन्ने ज्ञानं, निरुक्तविषयत्वविशिष्टे तत्तद्धर्मावच्छिन्ने तत्पदशक्तिमहात् । तथा च घटो यत्पदबोध्य इत्यादिशाने शुद्धघटत्वावच्छिन्नस्य तदोपस्थित्यादिनिराबाधा । विशिष्टतत्तद्धर्मावच्छिन्ने गृहीतसंबन्धकज्ञानस्यापि शुद्धतत्तद्धर्मावच्छिन्नवृत्तिज्ञानजन्यशुद्धतत्तद्धर्मावच्छिन्नोपस्थितेरेव च शुद्धधर्मावच्छिन्नशाब्दबोधजनकत्वादत एव विशिष्टशक्तपदस्य विशेष्यमात्रबोधकत्वे न लक्षणेति सिद्धान्त: । बुद्धिविषयतावच्छेदकावच्छिन्नं तत्पदबोध्यमित्याकारा चात्र शक्तिः । न च शुद्धघटत्वाद्यवच्छिन्नस्य शक्त्यनुभवाविषयत्वात्कथं स्मृतिरिति वाच्यम् । अनुभवस्मरणयोः समानप्रकारत्वेनैव कार्यकारण

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238