________________
१३ ग्रन्थः] आख्यातशक्तिवादः ।
१२३ शेष्यकशक्तिग्रहासंभवेन बुद्धिविषयतावच्छेदकमुपलक्षणीभूय शक्यतावच्छेदकानुगमकमास्थीयते । अत्र बुद्धिर्यत्पदजन्या ग्राह्या, अप्रक्रान्ताद्यर्थकतच्छब्देनापि यच्छब्दाक्षेपात्। अत एव यत्तदोनित्याभिसंबन्ध इति प्राञ्चः । इत्यं च शक्यतावच्छेदकानुगमकबुद्धिविषयतावच्छेदकत्वं यदा यादृशे रूपे गृह्यते तदा तेनैव तत्पदमुपस्थापयत्यनुभावयति च व्युत्पत्तिवैचित्र्यात्तथाख्यातकृतोरपि संयोगत्वविभागत्वादिरूपशक्यतावच्छेदकनानात्वादवच्छेदकभेदादनन्तशक्त्यापत्त्या प्रकृतिबोध्यतावच्छेदक(त्व)मुपलक्षणीभूय शक्यतावच्छेदकतत्त्वावच्छेदकाद्यनुगमकमुच्यते। प्रकृतिबोध्यतावच्छेदकधर्मवति फले तद्वति च शक्तमिदमित्याकारकः शक्तिग्रहः । शक्यतावच्छेदकाद्यनुगमकप्रकृतिबोध्यतावच्छेदकत्वं च धर्मस्य यदा यादृशरूपेण गृह्यते तेन रूपेण कृप्तमुपस्थापयति बोधयति चेति नियमान्नातिप्रसङ्ग इति भावः । तादृशरूपेण शाब्दबोधं प्रति तादृशरूपेण शक्तिग्रहस्य हेतुतायाः कृप्तत्वात्तत्यागे बीजाभावः । अन्यथा तदादिपदे शक्तेरपि विलयापत्तिः । बुद्धिविशेषस्य सहकारित्वेनैवानतिप्रसङ्गात् , बुद्धौ शक्यतावच्छेदकानुगमकविशेषणत्वस्य व्यर्थत्वात्, घटत्वाद्यवच्छिन्ने शक्त्यभावग्रहेऽपि शुद्धघटत्वादिप्रकारेण शाब्दबोधापत्तिश्च । किं च शाब्दबोधाविषयीभूतधर्मेण शक्यतावच्छेदकानुगमे इच्छाविषयत्वतत्तदभावत्त्वमपि तथा स्यात् । सहकारित्वं च शक्यतावच्छेदकनिष्टस्यापि बुद्धिविषयत्वस्याव्याहतमेवेति । किं चैवं नानार्थतोच्छेदः, अक्षादिपदेऽप्यन्यतमत्वविशेषस्य शक्यतावच्छेदकानुगमकस्य संभवादिति प्राचीनमतं दूषयति ।
अत्रैवं प्राचामाशयं वर्णयाम:-शक्तिनस्तावत्संबन्धग्रहत्वेन शक्योपस्थापकतयोपयुज्यते । बुद्धिविषयतावच्छेदकावच्छिन्नं तत्पदशक्यमिति शक्तिग्रहाहितसंस्कारेण तत्तद्धर्मावच्छिन्नशक्त्यंशे उद्बुद्धेन सहकृतमेव तत्पदं तद्धर्मावच्छिन्नं स्मारयत्यनुभावयति च । उद्बोधकं च परंपरासंबन्धि तत्पदज्ञानस्मारितस्य यत्पदजन्यबुद्धिविषयत्वस्य तत्तद्धर्मावच्छिन्ने ज्ञानं, निरुक्तविषयत्वविशिष्टे तत्तद्धर्मावच्छिन्ने तत्पदशक्तिमहात् । तथा च घटो यत्पदबोध्य इत्यादिशाने शुद्धघटत्वावच्छिन्नस्य तदोपस्थित्यादिनिराबाधा । विशिष्टतत्तद्धर्मावच्छिन्ने गृहीतसंबन्धकज्ञानस्यापि शुद्धतत्तद्धर्मावच्छिन्नवृत्तिज्ञानजन्यशुद्धतत्तद्धर्मावच्छिन्नोपस्थितेरेव च शुद्धधर्मावच्छिन्नशाब्दबोधजनकत्वादत एव विशिष्टशक्तपदस्य विशेष्यमात्रबोधकत्वे न लक्षणेति सिद्धान्त: । बुद्धिविषयतावच्छेदकावच्छिन्नं तत्पदबोध्यमित्याकारा चात्र शक्तिः । न च शुद्धघटत्वाद्यवच्छिन्नस्य शक्त्यनुभवाविषयत्वात्कथं स्मृतिरिति वाच्यम् । अनुभवस्मरणयोः समानप्रकारत्वेनैव कार्यकारण