SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२४ वादार्थसंग्रहः [४ भागः अपि च धात्वर्थतावच्छेदकफलशालित्वं कर्मभावाच्छक्त्यनुभवस्य संभवाच्च । अस्तु वा यत्पदधर्मिकशक्त्यनुभवजन्यबुद्धिविषयो घटः पटादिश्च तत्पदशक्य इत्येव शक्तिग्रहस्तत्र च संसर्गतया भासमानेन यत्पदजन्यबुद्धिविषयतावच्छेदकत्वेन घटत्वपटत्वादीनामनुगमान्न शक्त्यानन्त्यम् । अत एव न तच्छक्यतावच्छेदकतावच्छेदकं किं तूपलक्षणीभूय शक्यतावच्छेदकानुगमकं शब्दत्वादिवत् शक्तिमहे शक्यतावच्छेदकविशेषणत्वेनाभा नादित्येके । तत्तयैव कदाचिद्यत्पदजन्यबुद्धिविषयतावच्छेदकत्वेनापि तत्पदादुपस्थितेः । न चैवमिच्छाविषयतावच्छेदकत्वादिकमपि तथा स्यात् कदाचित्तेन रूपेणाप्युपस्थितेरिति वाच्यम् । यत्पदनियतवाक्यादिनाद्यव्युत्पत्तेरेव शक्तिसा धकत्वात् । अत एव च न पदान्तरप्रतिबन्दिरपीत्यन्ये । न चैवं यत्पदस्यापि तत्पदजन्यबुद्धिविषयतावच्छेदकावच्छिन्ने शक्त्या तत्पदजन्यबुद्धिविषयत्वज्ञान एव ततो बोध इत्यन्योन्याश्रय इति वाच्यम् । यो धूमवानित्यादौ यत्पदार्थान्वय्यर्थे तत्वेन विशिष्य तत्पदजन्यशाब्दबोधात्प्रागपि तद्विषयत्वज्ञानसंभवात् । विशिष्य तदसंभवेऽपि सामान्यतस्तत्संभवाच्च । अत एव यो रूपवानित्यादिकं यो धूमवान् पर्वतो वहिमानित्यादिकं च निराकाङ्क्षप्रतिपत्तिकम् । __ यत्तु तत्पदस्य बुद्धिविषयत्वावच्छिन्न एव शक्तिर्घटत्वादीनामननुगमेन तत्त्या. गात्तत्पदोपस्थापितबुद्धिविषयस्य शुद्धघटत्वाद्यवच्छिन्नेऽभेदज्ञानं च शुद्धघटत्वाद्यवच्छिन्नशाब्दबोधे हेतुः । अत एवोक्तं बुद्धिस्थवाचीति । तन्न । तत्पदे शक्तिश बुद्धिविषयत्वावच्छिन्नोपस्थित्यं) [ तदभेदज्ञानं च शाब्दबोधे कारणमिति?] तत्तद्धर्मावच्छिन्नशक्तिशानजन्यपदार्थोपस्थितेः कारणत्वभङ्गप्रसङ्गादुपेक्षितम् । तत्पदाद्यजन्यबोध एव तत्कारणमित्यप्याहुः । __ परे तुयो रूपवांस्तमानयेति वाक्याच्चैत्रत्वादिविशिष्ट एव यत्तदोराद्या व्युत्पत्ति रनुगमार्थमुक्तधर्मानुसरणे सैन्धवादिपदस्थलेऽन्यतमस्याप्यनुसरणापत्तिः। चैत्रो यत्पदबोध्य इत्यादि ज्ञानं तु तत्पदशक्यत्वानुमितिजनकतया चोपयुज्यते पद्मरागादौ रूपविशेषज्ञानमिव पद्मरागादिपदवाच्यत्वग्राहकतया । अत एव यत्पदोपेक्षेत्यप्याहुः । यत्तु यत्पदजन्यबुद्धिविषयत्वज्ञानं तत्पदजन्यशाब्दबोधे हेतुरिति तन्न । वाक्यादिना शक्तितात्पर्यावधारणे विनाऽपि तज्ज्ञानं तजन्यशाब्दबोधादित्यलमतिपल्लवितेन ॥ ११ ॥ (मथु०) त्यजि-गम्योः पर्यायत्वाभावस्य कर्मासमभिव्याहते गच्छतित्यजतीत्यादौ विलक्षणप्रतीतेः स्वारसिकत्वस्य च कदाचिदपलापसंभवात् प्रामा
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy