________________
१२५
१३ ग्रन्थः] आख्यातशक्तिवादः। त्वम् । न तु धात्वर्थजन्यफलशालितामात्रं गमिपत्योः कर्मत्वस्य पूर्वस्मिन्देशे त्यजेश्चोत्तरस्मिन्देशे स्पन्देः पूर्वापरदेशयोः प्रसङ्गात् । फलावच्छिन्नव्यादेर्गमिकर्मत्वव्यवहारानुपपत्त्या फलस्य धात्वर्थतावच्छेदकत्वं व्यवस्थापयतिअपि चेति। धात्वर्थतावच्छेदकेति धातुप्रतिपाद्यतावच्छेदकेत्यर्थः। धातुत्वं च सतविशेषसंबन्धेन धातुपदवत्त्वं, शालित्वं च संसर्गः न.तु शक्यतावच्छेदके तदन्तर्भावः । न चैवमग्रौ जुहुयादित्यादावनेरपि जुहोतिकर्मत्वापत्तिः, अग्निसं. योगावच्छिन्न क्रियाया जुहोत्यर्थतया धात्वर्थतावच्छेदकसंयोगात्मकफलशालित्वस्याग्नेरपि सत्त्वादिति वाच्यम् । अनिसंयोगानुकूलघृतादिक्रिया न धात्वर्थः, तथा सति घृतं जुहोतीत्यत्र द्वितीयार्थस्य परसमवेतत्वस्य धात्वर्थेऽन्वयानुपपत्तेः । अपि तु संयोगावच्छिन्नघृतादिक्रियानुकूलकर्तृव्यापारस्यैव जुहोत्यर्थतया क्रियाया एव धात्वर्थतावच्छेदकत्वात् , अनाविति सप्तम्यर्थः स्थायां पचतीत्यादाविव परंपरासंबन्धावच्छिन्नाधेयत्वं, तच्च धात्वर्थव्यापारे अन्वेति सप्तम्यर्थाधेयत्वस्य पदार्थान्वितत्वनियमात् । इत्थं च ग्रामो गमिकत्यादौ कर्मपदाथैकदेशे धातुत्वविशिष्टे गम्यादेरभेदसंबन्धेनान्वयो व्युत्पत्तिवैचित्र्यादभेदार्थकल्लप्त. षष्ठीस्मरणादभेदस्य प्रकारतयैव भानं, यत्र च न तत्स्मरणं तत्र गम्यादिपदं ता. त्पर्यग्राहकं कर्मपदस्यैव गम्यायभिन्नधात्वर्थतावच्छेदकफलवति लक्षणेति भावः ।
ननु धात्वर्थजन्यफलशालित्वमेव कर्मत्वमतो न ग्रामादेर्गम्यादिकर्मत्वव्यवहारानुपपत्तिरित्यत आह-न त्विति। कर्मत्वस्य कर्मत्वव्यवहारस्य पूर्वस्मिन् देश इति, प्रसङ्गादित्यग्रेतनं सर्वत्र सम्बद्धयते, पूर्वदेशस्यापि गमि-पत्यर्थजन्यविभागात्मकफलवत्वादिति भावः। यद्यपि पतधातोरकर्मकतया पूर्वोत्तरदेशयोरुभयत्रैव तत्कर्मत्वव्यवहारापादनमुचितं, तथापि नरकं पतितः नरकपतित इत्यत्र द्वितीयातत्पुरुषानुशासनस्वरसात् उत्तरदेशस्य तत्कर्मत्वमस्त्येवेत्यभिप्रायः । नभ उत्पपातेत्यत्र नभसः कर्मतया उत्तरदेशस्य तत्कर्मत्वमस्त्येवेत्यभिप्राय इत्यपि कश्चित् । उत्तरस्मिन् देश इति तस्यापि त्यज्यर्थसंयोगात्मकफलवत्त्वादिति भावः । पूर्वापरदेशयोरिति, उभयोरेव स्पन्दजन्यविभागसंयोगात्मकफलवत्वादिति भावः। प्रसङ्गादिति । अस्मन्मते तु गमि-पत्योः संयोगावच्छिन्नायां, त्यजेर्विभागावच्छिन्नायां, स्पन्देश्च केवलायां क्रियायां शक्तिरिति नैतदोषावकाशः । पतेनत्वं च गुरुत्वासमवायिकारणकक्रियामात्रवृत्तिः तज्जन्यतावच्छेदकजातिविशेषः, तस्यैव पतधातुशक्यतावच्छेदकतया न गमिपत्योः पर्यायतेति भावः।
न कर्मपदं तत्तद्धातुबोधकपदसमभिव्याहारात् फलत्वेन तत्तत्फलस्यैव बो.