________________
१२६ वादार्थसंग्रहः
[४ भागः पारबोधकत्वादेव च धातूनां सकर्मकत्वव्यवहारः। भाक्तस्तु जानात्यादेस्तादृशधातुयोग एव च कर्मप्रत्ययाः । तत्र च द्वितीययाधेयत्वमभिधीयते त
चाकाङ्क्षावैचित्र्याद्धात्वर्थतावच्छेदकेऽपि फलेऽन्वेति, घसाकाङ्क्षमिति नैतदोषः । न च तथापि पूर्वोत्तरदेशयोः स्पन्दिकर्मत्वव्यवहारो दुर्वार इति वाच्यम् । कर्मपदस्य धातुत्वेन सकर्मकतत्तद्धातुघटितकर्मत्वस्य बोध एव साकासतया तस्य उपयोगित्वादित्यत आह-फलावच्छिन्नेति । अव. च्छिन्नान्तात् स्पन्दिव्युदासः । सकर्मकत्वव्यवहारः मुख्यसकर्मकत्वव्यवहारः । तथाच गम्यादेः स्वारसिकसकर्मकस्वव्यवहारोपपत्त्या फलावच्छिन्नक्रियादिवाचित्वसिद्धिरिति भावः।
केचित्तु नमूक्तसामान्यधर्मो न कर्मपदशक्यतावच्छेदकः, न वा सामान्यतो धात्वर्थजन्यफलशालित्वं तच्छक्यतावच्छेदकमपि तु विशिष्य गम्यर्थजन्यसंयोगशालित्व-त्यज्यर्थजन्यविभागशालित्वादिकमेव तच्छक्यतावच्छेदकं, ग्रामो गमिकर्मत्यादौ गम्यादिपदं तात्पर्यग्राहकम् । न चैवं नानार्थत्वापत्तिरिति वाच्यम् । प्रत्येकमादाय विनिगमनाविरहेण तवापि नानार्थत्वस्य दुरित्वात तत्तद्धातुविशेषवाचकपदसमभिव्याहारस्य नियामकतया गमिकर्मत्यादौ न त्यज्यादिघटितकर्मत्वप्रतीतिः, ग्रामः स्पन्दिकर्मेत्यादिव्यवहारश्च नायोग्यो न वा योग्यः किंत्वपार्थकः कर्मत्वस्य धातुविशेषघटिततया स्पन्दादिधातोस्तन्निरुक्तावप्रवेशादित्यत आह-फलावच्छिन्नेतीत्याहुः ।।
नन्वेवं जानात्यादौ सकर्मकत्वव्यवहारो न स्यात् तत्र फलस्ये शक्यतानवच्छेदकत्वादित्यत आह-भाक्तस्त्विति । जानात्यादेरिति सकर्मकत्वव्यवहार इति शेषः । तथाच यतिप्रभृतिभिन्नत्वे सति सविषयकवाचित्वमेव तत्र सकर्मकत्वमिति भावः । नन्वेवं तद्योगे कथं कर्मप्रत्यय इत्यत आह--ता. शेति । उक्तमुख्य-भाक्तसाधारणसकर्मकव्यवहारविषयधातुयोग एवेत्यर्थः । कर्मप्रत्ययाः द्वितीयादयः । आदिपदात् भोजनाय यतते पुष्पेभ्यः स्पृहयति मातुः स्मरतीत्यादौ चतुर्थी षष्ठयादिपरिग्रहः ।।
केचित्तु ननु यादृशधातुयोगे कर्मप्रत्ययोऽवशिष्यते तस्यैव सकर्मकतया कथं गम्यादेर्मुख्यं जानात्यादेश्च भाक्तं सकर्मकत्वमित्यतआह--तादृशेतीत्याहुः।
नन्वेवं धात्वर्थतावच्छेदके फले कथं प्रातिपदिकार्थस्य साकासत्वादन्वय इत्यत आह--तत्र चेति । फलावच्छिन्नव्यापारवाचिधातुयोगे चेत्यर्थः। तच्च भाधेयत्वं च आकाङ्कावैचित्र्यात् पदार्थतावच्छेदकान्वयित्वस्यैव अत्र साका. सत्वात् । इत्थं च तण्डुलमोदनं वा पचतीत्यादौ तण्डुलौदनादिपदे तण्डुलावयव.