________________
१२२
वादार्थसंग्रहः
[४ भागः
गमनं न काश्या वृक्षस्य त्यागो न भूमेरितिप्रयोगानुपपत्तिः, गमने काशीविभागजनकत्वसत्त्वेन त्यागे च भूमिवृत्तिसंयोगजनकत्वसत्वेन काशीभूमिवृत्तिफलजनकत्वसामान्याभावस्य तत्रासत्त्वादिति भावः । ननु गमिसमभिव्याहारे द्वितीयाया उत्तरसंयोगस्त्यजिसमभिव्याहारे विभागोऽर्थो वाच्य इत्यत आह-इतरथेति । अथ पर्यायत्वमेकार्यनिष्ठत्वमेव ग्रामं गच्छतीत्यत्र ग्रामं त्यजतीति प्रयोगापत्तिश्च समभिव्याहाराश्रयेण वारणीयेति चेत् । न । लक्षणया त्यागार्थकगमधातोर्गमना. द्यर्थकत्यजधातोः समभिव्याहारेऽपि द्वितीयादेः संयोगविभागाद्यर्थत्वप्रसङ्गात् । मुख्यार्थकत्यजिगम्योः समभिव्याहारे तथा वाच्यत्वादिति चेत् । न । तयोः पर्यायतायां प्रकृते मुख्यत्वलाक्षणिकत्वानुपपत्तेः । न च संयोगावच्छिन्नव्यापाराद्यलक्षकत्वमेव मुख्यार्थत्वमिति वाच्यम् । कर्मप्रत्ययजन्यफलबोधं प्रति कर्मप्रत्ययसमभिव्याहृतधातुजन्योपस्थितेरवश्यंभावेन धातोः फलमर्थ इति भावात् । __ यत्तु तयोः पर्यायतायां त्यागगमनादिभावप्रत्ययान्तात्स्वरसतो विभागाद्यवच्छिन्नव्यापारबोधो न स्यात् ' इति तन्न, कर्मासमभिव्याहृतत्यज्यादौ विभागाद्यवच्छिन्नव्यापारे निरूढलक्षणास्वीकारसंभवात् ।
ननु फलावच्छिन्नव्यापारस्य धात्वर्थत्वेऽपि कर्माख्यातस्थले धात्वर्थफलस्य कर्मण्यन्वयासंभवादात्मनेपदार्थफलस्यैवान्वये नियमो न स्यात्, आत्मनेपदस्य सामान्यतो विशेषतो वा फलसामान्यावाचकत्वात्तस्मात्त्वयाऽपि त्यजिगम्यादिसमभिव्याहारेणैव नियमो वाच्य इति शङ्कते-तवापीति । संयोगादीति नियमत इत्यादिः । तदवच्छिन्नेति । तथा च मम संयोगाद्यवच्छिन्ने व्यापारे गमादिधातोः शक्तिस्वीकारादयं नियमः संभवति । तव व्यापारमात्रे शक्तेः पूर्वोक्तदोषान तत्संभव इति भावः । सामान्यशक्तस्य समभिव्याहारविशेषेण विशेषबोधकत्वे दृष्टान्तमाह-यथेत्यादि । इष्टत्वेति । तथा च शक्त्यानन्त्यकल्पनभिया विधेः सामान्यतः शक्तिवदत्रापि तथैवेति भावः । नन्वेवं मुक्तिकाम आत्मानं पश्येत् न तु यज्ञ, जन् (?) प्रयागो गम्यते न तु काशीत्यादिप्रयोगो न स्यात् । इष्टसाधनत्वतावच्छिन्नाभावस्य यागे गमनजन्यफलत्वावच्छिन्नाभावस्य च गमनजन्यविभागाश्रयकाश्यामसत्त्वात् । नञाऽन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्यैव बोधनादत आह–स्वर्गत्वेति । तथा च प्रामाणिकत्वाच्छक्त्यानन्त्यकल्पनागौरवमपि न दोषायेति भावः ।
शक्त्यानन्त्यकल्पने विशेषप्रकारबोधोपायमाह--अस्तु वेति । यथा तदादीनां पटत्वघटत्वादिशक्यतावच्छेदकभेदेन शक्त्यानन्त्यापत्त्याऽपूर्वचैत्रत्वादिविशिष्टवि