SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १३ प्रन्थः] आख्यातशक्तिवादः। १२१ एस्वर्गयोरभेदान्वयेन स्वर्गादिरूपफलबोधकत्वं तदा प्रकृते संयोगादिफलयोरभेदान्वयेन संयोगादिबोधकत्वमिति भावः । ननु सामान्यधर्मावच्छिन्नबोधकपदात्सामान्यरूपेण विशेषबोधसंभवेऽपि गम्यते ग्राम इत्यादौ संयोगत्वादिना संयोगस्य ग्रामवृत्तित्वबोधालाभप्रसङ्गः । न च संयोगफलयोरभेदान्वयेन संयोगत्वादिरूपेण तथा बोधसंभव इति वाच्यम् । इतरविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वेनान्वये निराकाङ्क्षत्वेन तथान्वयासंभवादित्यत आह-अस्तु वेति । तथाच यथा बुद्धिविशेषविषयत्वरूपसामान्यधर्मावच्छिन्नशक्ततदादिपदाद्धटत्वपटत्वादिरूपविशेषरूपेण बोधस्तथा प्रकृतेऽपि फलस्वरूपसामान्यधर्मावच्छिन्नशक्ताख्यातपदात्संयोगत्वादिरूपविशेषरूपेण बोधः। यद्धर्मावच्छिन्ने पदनिरूपितशक्तिग्रहः तेन रूपेण पदस्य बोधजनकत्वमिति नियमस्यैतदतिरिक्तस्थलत्वादिति भावः । इदं च तदादिसर्वनामपदस्य शक्यतावच्छेदकं बुद्धिविशेषविषयत्वमेव, शक्तिमहोऽपि वद्धर्मावन्छिन एव, बोधस्तु घटोऽस्य बुद्धिस्य इति ज्ञानसहकृताद्बुद्धिविषयस्तदादिपदशक्यह ति ज्ञानादुत्पद्यत इति प्राचीनमतानुसारेण बोध्यम् ॥ ११ ॥ (जय०) एवं चेत्यादिः कश्चिदित्यन्त एको ग्रन्थः । एवं च फलस्यात्मनेपदाद्यर्थत्वे च । व्यापारविशेषमात्रेति पाकादिरूपक्रियामात्रेत्यर्थः । मात्रपदेन फलांशव्युदासः । तथा सति धातोरेव फललामे द्वितीयादेः फलार्थत्वं न सिध्ये - दिति भावः। द्वितीयादेरित्यादिपदात्षष्ठीपरिग्रहः । फलजनकत्वस्यार्थत्वे एकदेशान्वयापत्तेगौरवाचाह—फलमात्रं वेति । नन्वेवं यत्र कर्मणा संयोगजचक्षुरादिसंनिकर्षादेव तत्प्रत्यक्षं तत्रामुं न गच्छतीति प्रयोगानुपपत्तिः । तत्कर्मकगमनस्याप्रसिद्धथा गमनत्वावच्छेदेन द्वितीयार्थस्यैव हि प्रतिषेधो वाच्यः । न च फलस्य द्वितीयार्थस्य जनकत्वसंबन्धेन तत्संबन्धः । अन्यथाऽतिप्रसङ्ग इति । तस्मात्फलजनकत्वम्, फर्क जनकस्वं वा द्वितीयार्थः । एवं रूपं न गच्छवीत्यादिप्रयोगात् आधेयत्वमपि । तत्र रूपनिष्ठसंयोगजनकत्वाद्यप्रसिद्धथा फले संयोगादिद्वितीयार्थाधेयत्वस्याभावबोधसंभवादिति चेन्न । लाघवात्संयोगाद्यात्मकफलशक्ताया. द्वितीयायास्तत्र तत्र लक्षणास्वीकारात् । एतेन रूपं न गच्छतीत्यादौ द्वितीयार्थस्याधेयत्वस्यैव धात्वर्थे फलेऽभावबोधसंभवाद्धातोः फलमप्यर्थः, द्वितीयायाश्चाधेयत्वमेवेति परास्तम् । धातोः फले. शक्त्यन्तरकल्पने द्वितीयायाश्योपाधिविशिष्ट शक्तिकल्पने गौरवापत्तेरिति दिक् । नियतसंयोगेति । तदलाभे च काश्याः प्रयागं गच्छतो गमने प्रयागस्येदं
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy